________________
द्वितीयाऽऽगतैस्तैस्ततोऽनयैतदनुष्ठितमिति विज्ञायैवं बहुमोहा किमियं सा मद्भगिनी भविष्यतीति सञ्जाताशङ्कः पल्लीपतिः श्रुत्वा मद्वार्तामेष समायातो न च शक्नोति प्रष्टुं तेनोक्तं या सा सा सेति । अस्यायमर्थो ‘याऽसौ मद्भगिनी सा किमेषा वनवर्तिनी पापा ? मयाऽपि कथितं या सा सेति तदाकर्पोऽहो दुरन्तो विषयसङ्गस्तदिदमायातं यदाह- कश्चित् - सर्वाभिरपि नैकोऽपि तृप्यत्येकाऽपि नाऽखिलैः । द्वितीयं द्वावपि द्विष्टः कष्टः स्त्रीपुंससङ्गमः ।।१।।। ] इति विगणय्य प्रतिबद्धा बहवः प्राणिन इति ।।५८।।
गाथा : जललवतरलं जीअं, अथिरा लच्छीवि भंगुरो देहो ।
तुच्छा य कामभोगा, निबंधणं दुःक्खलक्खाणं ।।५९।। व्याख्या : जललववत् कुशाग्रस्थिताऽवश्यायबिन्दुवत्तरलं चपलं जीवितव्यं जीवितम् ।
लक्ष्मीरप्यस्थिरा । तथा देहः शरीरं भङ्गरः स्वयमेव भज्यत इत्येवंशीलो भङ्गर
स्वयमेव विनशनशीलः । “भञ्जभासमिदोधुरच कर्मकर्त्तरि शीलार्थे । १. विषानं तत् ख । + इदं सूत्रं पाणिनीयं प्रतिभाति, तत्स्थाने सिद्धहेमे "भञ्जिभासिमिदो धुरः" (सि० ५-२-७४)
सूत्रमस्ति । देहं चैत्रः भनक्तीति कर्तरि प्रयोगः, देहश्चैत्रेण भज्यते, इति कर्मणि प्रयोगः, देहः स्वयमेव भज्यते इति कर्मकर्तरि प्रयोगः । कर्मकर्तर्यपि शीलार्थस्य मुख्यत्वेन स्वयमेव भज्यमानस्वभावः = भङ्गुरः इत्यर्थः ।
१२९ इन्द्रियपराजयशतकम्