________________
गाथा : खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिकामसुक्खा ।
संसारमुक्खस्स विपक्खभूआ, खाणी अणत्थाण उ कामभोगा ।।२५।। व्याख्या : क्षणमात्रसौख्याः क्षणमात्रं सौख्यं येषु । तथा 'बहुकालदुक्खा' बहुकालं
नरकादिषु दुक्खं शारीरादि येभ्यस्ते । प्रकामदुःखा अतिशयदुःखाः । अनिकामसौख्या अप्रकृष्टसुखाः । संसारमोक्षस्य संसारान्मोक्षो वियोगो यस्मात्स संसारमोक्षो मुक्तिस्तस्य प्रतिबन्धकतया प्रतिकूलाः । किमित्येवंविधाः ? (तत) इत्याह 'खनिराकरोऽनर्थानां, तु शब्दोऽवधारणे भिन्नक्रमश्च, ततः खनिरेव कामभोगा उक्तरूपाः ।।२५।।
गाथा : सव्वगहाणं पभवो, महागहो सव्वदोसपायट्टी ।
कामग्गहो दुरप्पा, जेणभिभूअं जगं सव्वं ।।२६।।
व्याख्या : सर्वग्रहाणां समस्तोन्मादानां प्रभव उत्पत्तिस्थानम् । महाग्रहः बृहदुन्मादः ।
'सव्वदोसपायट्टि' त्ति सर्वदोषाणां परदाराऽऽकर्षणादीनां प्रवर्तक इत्यर्थः । कोऽसौ ? कामग्रहो मदनचित्तभ्रमो दुरात्मा दुष्टस्वभावो येनाभिभूतं वशीकृतं जगत्सर्व्वमिति ।।२६।।
गाथा : जह कच्छुल्लो कच्छं, कंडुअमाणो दुहं मणइ सोक्खं ।
मोहाउरा मणुस्सा, तह कामदुहं सुहं बिंति ।।२७।। व्याख्या : ‘जह कच्छुल्लो कच्छु' ति यथा पामावान् पामां कण्डूयमानो नखादिभिः दुःखं
तदुपतप्तिरूपं मन्यते सौख्यम् । मोहातुरा=मदनविपर्यासविह्वला
मनुष्या जीवास्तथा कामदुःखं सुखं ब्रुवते स्वतोषात्परस्मै कथयन्ति ।।२७।। १. ०मोक्खस्स मुद्रिते । २. तत खडड ड । ३. मुणइ सुक्खं मुद्रिते ।
"ते" इत्यध्याहारोऽत्र सुगम एव । + "स्यादाकरः खनिः खानिः" इति अभिधानीय १०३६ तमश्लोकात् खनिखानिशब्दौ सिद्धावेव ।
८४
इन्द्रियपराजयशतकम्