SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ सम्पूर्णदोहदा साऽथ, महादेवी यशोधरा । वल्लीव कलयामास लावण्यमधिकाधिकम् ।।५।। पूर्णे च समयेऽसूत, महिषी चक्रवर्तिनः । उत्तमं तनुजन्मानं, गङ्गेव कनकाम्बुजम् ।।६।। यशोधराया उत्पन्नदोहदानुगतां नृपः । सागरदत्त इत्याख्या, तस्याऽकृत शुभेऽहनि ।।७।। धात्रीभिर्लाल्यमानश्च पयःपानादिकर्मभिः ।। शाखीवासादयवृद्धिं, राजपुत्रः क्रमेण सः ।।८।। वक्तुं प्रवीणतां प्राप्तः, स कुमारोऽध्यजीगपत् । उद्यम्य काञ्चनलतामुत्सुकः शुकशारिकाः ।।९।। प्रौढीभवन् सुहृद्भिश्च, रेमे रत्नकरण्डकैः । पीनांऽसभूमिकारङ्गनृत्यन्माणिक्यकुण्डल: ।।१०।। समये स नरेन्द्रेण, नियुक्तो गुरुसन्निधौ । गुरोः कलाः परिपपौ, कूपादप इवाध्वगः ।।११।। विश्वस्यापि भृशं नेत्रकैरवाणि प्रमोदयन् । शशीव सम्पूर्णकलः, प्रतिपेदे स यौवनम् ।।१२।। स्वयंवरागताः कन्याः, पितृभ्यां पर्यणायि सः । एता हि पात्रमायान्ति रत्नाकरमिवापगाः ।।१३।। । अनड्वाहीभिरुक्षेव, करेणुभिरिव द्विपः । ताराभिरिव शीतांशुस्ताभिः सममरंस्त सः ।।१४ ।। नारीभिरन्यदा क्रीडन्, प्रासादे मदनोपमः । मेरुसन्निभमाकाशे, स ददर्शाभ्रमण्डलम् ।।१५।। अचिन्तयञ्च यादृक् हि, श्रूयते मेरुरागमे । तादृगभ्रमयः सोऽयं, काप्यहो रमणीयता ।।१६।। एवं मेरुनिभं मेघमण्डलं तस्य पश्यतः, । नाभूदवाग्मुखीदृष्टिविलनेव तदन्तरे ।।१७।। १. स रेमे रत्नकरण्डकैः खडड, । २. अनडुहीभि ख । + ङ. परे णौ "णौ सन्डे वा"(सि० ४-४-२७) सूत्रेणेधातोर्गादेशे, “अतिरीलीही०" (सि० ४ २-२१) सूत्रेण पागमे, "उपान्त्यस्याऽसमान." (सि० ४-२-३५) सूत्रेण गाप उपान्त्यहस्वत्वेऽद्यतन्यां तृतीयपुरुषैकवचनम् : अध्यजीगपत् = पाठ्यन्नासीदित्यर्थः । 0 अनड्वाह्यनडुह्युषा ।।१२६५ ।। इत्यभिधानचिन्तामणिनिर्देशादनडुहीवदनड्वाही शब्दोऽपि विद्यते । ७७ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy