________________
सत्थेण समं सगिह पट्ठि ओ, तओ भोयणाइनिमित्तं रुवगो कागिणिहिं भिन्नो तओ दिणे दिणे कागिणीए भुंजइ, तस्स य अवसेसा एगा कागिणी, सा विस्सारिया, सत्थे पहाविए सो चिंतेइ ‘मा में रुवगो भिंदियव्वो होइ'त्ति नउलगं एगत्थ गोवेउं, कागिणीनिमित्तं नियत्तो, सावि कागिणी अन्नेण हडा सोवि नउलओ अन्नेण दिट्ठो ठविजंतो, सो तं घेत्तूण नट्ठो, पच्छा सो घरं गओ सोअइ । एस दिदंतोतथेति सादृश्ये, तुच्छविषयगृद्धाः तुच्छेष्वसारेषु विषयेषु शब्दादिषु पञ्चसु गृद्धा मूर्छिताः कामासक्ता इति यावत् । जीवाः सत्त्वाः सिद्धिसुखं = मुक्तिसौख्यं हारयन्ति निर्गमयन्ति । अयं भावः - काकिणीसदृशा मनुष्याणाममी विषया रत्नकोटिसमसिद्धिसुखानां पुरतः, ततस्तदर्थिभिः सिद्धिसुखानि हार्य्यन्त इति । क्वचित्तु “कोडिं रयणाण हारए कोई त्ति पाठस्तत्र रत्नानां कर्केतनादीनां कोटिं शंतलक्षरूपां कश्चिद्धारयेदिति ।।५।।
गाथा : तिलमित्तं विसयसुहं, दुहं च गिरिरायसिंगतुंगयरं ।
भवकोडीहिं न निट्ठइ, जं जाणसु तं करिजासु ।।६।।
व्याख्या : तिलमात्रं अरण्यजप्रमाणं अतितुच्छमित्यर्थः । विषयसुखं शब्दादिविषयजन्यं
सुखम् । दुःखं च नरकादावसातानुभवरूपं गिरिराजशृङ्गतुङ्गतरं गिरिराजः
सुवर्णाचलस्तस्य यत् शृङ्गं शिखरं तद्वत्तुङ्गतरं अतिशयेनोच्चम् । १. समं गेहं ड । २. मा से ड। ३. इति भावः खडड ड ।
काकिणी, सा विस्मृता, सार्थे प्रधाविते स चिन्तयति ‘मा मे रूप्यकः भेत्तव्यो भवति' इति, नकुलकमेकत्र गोपयित्वा काकिणीनिमित्तं निवृत्तः, साऽपि काकिणी अन्येन हृता, सोऽपि नकुलकोऽन्येन दृष्टः स्थाप्यमानः, स तं गृहीत्वा नष्टः, पश्चात् स गृहं गतः शाचति, एष दृष्टान्तः । -उदाहरणमिदम्, उत्तराध्ययने 'जहा कागिणीए हेउ सहस्सं हारए नरो । अपत्थं अंबगं भोझा राया रजं तु हारए ।।७-११।। गाथायाः श्रीवादिवेतालशान्तिसूरिटीकातोऽक्षरशः उद्धृतं प्रतिभाति ।
६८
इन्द्रियपराजयशतकम्