SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ गाथा : अजिइंदिएहि चरणं, कटुं व घुणेहि कीरइ असारं । तो धम्मत्थीहि दढं, जइयव्वं इंदियजयंमि ।।४।। व्याख्या : अजितेन्द्रियैर्न जितानि स्ववशं नीतानीन्द्रियाणि यैस्ते अजितेन्द्रियास्तैश्चरणं चारित्रं सिद्धिसौधशिखरसंप्रापकं काष्ठमिव दाविव घूणैः काष्ठकीटैः असारं निःसारं क्रियते अफलं जायत इत्यर्थः । गोवालो भंडवालो वा जहा तहव्वऽनिस्सरो । एवं अणिस्सरो तंपि सामण्णस्स भविस्ससि ? [उत्त० अध्य० २२गा०-४५] ततो धार्थिभिर्धर्मं सम्यक्त्वश्रुतदेश-सर्व्वविरतिरूपं अर्थयन्ते अभिलषन्तीत्येवंशीला धार्थिनस्तैः धर्मकरणशीलैदृढं स्थिरं स्यात्तथा इन्द्रियजये इन्द्रियवशकरणे यतितव्यं यत्नो विधेयः, इन्द्रियजयादेव धर्मप्राप्तेः । यतःजयो यद्बाहुबलिनि विभङ्गो दशकन्धरे । जिताजितानि राजेन्द्र ! ह्रषीकाण्यत्र कारणम् ।।४।। गाथा : जह कागिणीइ हेडं, सहस्सं हारई नरो । तह तुच्छविसयगिद्धा, जीवा हारंति सिद्धिसुहं ।।५।। व्याख्या : यथेत्युदाहरणोपन्यासार्थः । काकिण्या रुपकाशीतितमभागरूपाया 'हेउंति हेतोः कारणात्सहस्रं दशशतात्मकं कार्षापणानामिति गम्यते, हारयेन्नाशयेन्नरः पुरुषः । अत्रोदाहरणसंप्रदायः - एगो दमगो, तेण वित्तिं करेंतेण सहस्सं काहावणाण अज्जियं, सो तं गहाय १. इंदिएहिं मुद्रिते । २. धम्मत्थीहिं मुद्रिते । ३. कोडि रयणाण हारए कोई K। - एको द्रमकस्तेन वृत्तिं कुर्वता सहस्रं कार्षापणानामर्जितं, स तद् गृहीत्वा सार्थेन समं स्वगृहं प्रस्थितः, ततः भोजनादिनिमित्तं रुप्यकः काकिणीभ्यो भिन्नः, ततो दिने दिने काकिण्या भुते, तस्य चावशेषा एका ६७ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy