SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ अथेन्द्रियाणामेव जयप्रकारमाहगाथा : इंदियचवलतुरंगे, दुग्गइमग्गाणुधाविरे निछं । भाविअभवस्सरूवो, रुंभइ जिणवयणरस्सीहिं ।।२।। व्याख्या : भावितभवस्वरूपः भावितं धातूनामनेकार्थत्वात्परिच्छिन्नं जिनोपदिष्ट विशिष्टवैराग्यतरङ्गितशास्त्राभ्यासजनितसंवेगोल्लासवासनया भवस्वरूपं संसारस्वभावः संयोगवियोगात्मको येन स भावितभवस्वरूपः पुरुषः । इन्द्रियचपलतुरङ्गान्-इन्द्रियाणि श्रोत्रादीनि चपलतुरङ्गाश्चञ्चलाश्वास्तान्, इन्द्रियाणां स्वस्वविषयग्रहणलोलुपतया चपलतुरङ्गमोपमानं घटत एव, अत एव तेषां रोधो दुष्करः । जिनवचनरश्मिभिस्तीर्थकृत्प्रणीतागमरज्जुभिः, 'रुंभइ त्ति प्राकृतत्वालिङर्थे लट् रुन्ध्यात् कुवफ्नो निवारयेत् । किंभूतान् इन्द्रियचपलतुरङ्गान् ? नित्यं दुर्गतिमार्ग नरकतिर्यगादिवर्त्म *प्रत्यनुसरणशीलान् यानि दुार्गे संचारितानि दुर्गतिं नयन्तीति भावः, 'रुंभइत्ति 'रुधोन्धम्भौ च' (सि० ८-४-२१८) इति रुन्धइ, रुम्भइ, इति । 'अणुधाविरे' इति, शीलाद्यर्थस्येरः (सि०८-२-१४५) इति शीलधर्मसाध्वर्थे विहितस्य प्रत्ययस्य इर इत्यादेशो भवति ।।२।। १. तुरंगो मुद्रिते । २. नुसारण. खडड, । * अत्र संचारितशब्दः स्वार्थण्यन्तो ज्ञातव्यः, अथवा "संचारितानि = दुर्मार्गे गन्तुं दत्तावकाशानि" इत्यर्थः कार्यः । ६५ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy