________________
सदा प्रशंसामः संस्तुमः । तच्छब्दो यच्छब्दमपेक्षत इति यस्य महात्मनः सदा-शश्वत् इन्द्रियचौरैरक्ष तस्करैश्चरणधनं चारित्रद्रव्यं न लुण्टितं नाऽपजहे । इन्द्रियाण्येव हि जीवस्य धर्मसर्वस्वमपहरन्ति किङ्करीभावं च प्रगुणयन्तीन्द्रियाण्येव यतः'आत्मभूपतिरयं चिरन्तनः पीतमोहमदिराविमोहितः । किङ्करस्य मनसोपि किङ्करैरिन्द्रियैरहह किङ्करीकृतः ॥ [ ] 'सोच्चिये'त्यत्र ‘णइ-चेअ-चिय-चअवधारणे' (सि० ८-२-१८४) इत्यनेन चियेति प्रयुक्तः सेवादित्वाद् द्वित्वमपि ‘ते च्चिय धन्ना ते चेय सुपुरिसा' इतिवत् । 'लुटिअ' मिति लुण्टण स्तेये । अत्र ग्रन्थका मङ्गलं सत्प्रशंसैव निरदेशि, मङ्गलं विनाऽऽरब्धं शास्त्रं न समाप्तिमासादयति, अन्यञ्चादौ शूरपण्डितशब्दप्रयोग एतदध्येतृणामिन्द्रियजयकेवलज्ञाने भूयास्तामित्येतदर्थम् । तथा च वार्तिककारेणादौ प्रयुक्तौ यः सिद्धशब्दस्तद्व्याख्यासमये भाष्ये उक्तं “माङ्कलिक आचार्यो महतः शास्त्री घस्य मङ्गलार्थं सिद्धशब्दमादितः प्रायुत, मङ्गलादीनि शास्त्राणि प्रथन्ते वीरपुरुषकाणि, भवन्ति आयुष्मत्पुरुषकाणि च, 'अध्येतारश्च सिद्धाः स्युरिति” । इति प्रथमगाथार्थ : ।।१।।
+ अक्षशब्दः अकारान्तोऽपि शब्दरत्नमहोदधौ विद्यते । * सेवादौ वा (सि० ८-२-९९) इति सूत्रे
गणपाठे चिअ, शिअ इत्युदाहरणमस्ति । SEEEEEEEKRkkkkkkkkkkkkkkkkk ६४ इन्द्रियपराजयशतकम्