________________
व्याख्या रे जीव ! 'जीवानां' प्राणिनां अयं जिनधर्मश्च 'अपूर्वो' अभिनवः ‘कल्पपादपः’ कल्पवृक्षः, कथमपूर्वत्वं ?, इत्याह-यतः किम्भूतः ?, स्वर्गापवर्गसौख्यानां फलानां 'दायको' दाता, अन्यो हि कल्पवृक्ष एवंविधफलानां दाता न भवति, अयं चैषामप्यतोऽन्यस्मात्कल्पपादपादयमपूर्व इति ।। १०० ।।
गाथा
व्याख्या
-
व्याख्या
"
-
धम्मो बंधु सुमित्तोय, धम्मो य परमो गुरू । मुक्खमग्गपयट्टाणं, धम्मो परमसंदणो । । १०१ । ।
गाथा - चउगइऽणंतदुहानल - पलित्तभवकाणणे महाभीमे । सेवसु रे जीव ! तुमं, जिणवयणं अमियकुंडसमं । । १०२ ।। व्याख्या - रे जीव ! त्वं 'महाभीमे ' महारौद्रे, चतसृणां गतीनां नरकादिरूपाणामनन्तानि यानि दुःखानि तान्येव 'अनलो' वह्निस्तेन 'प्रदीप्तं ' ज्वलितं यद्भवकाननं तस्मिन् 'जिनवचनं' श्रीसिद्धान्तममृतकुण्डसमं ‘सेवस्व’ भजस्व, सिद्धान्तोक्तमनुष्ठानं कुरुष्वेत्यर्थः । । १०२ ।। गाथा - विसमे भवमरुदेसे, अणंतदुहगिम्हतावसंतत्ते । जिणधम्मकप्परुक्खं, सरसु तुमं जीव ! सिवसुहदं ।। १०३ ।।
रे जीव ! अयं श्रीजिनधर्मो 'बन्धुरिव' भ्रातेव यथा भ्राता आपदि साहाय्यं ददाति तथाऽयं धर्मोऽपि भवापदि त्राता, 'च' पुनरयं धर्मः 'सुमित्र' सुसखा,' यथा सुमित्रं हितार्थसम्पादनात् सुखयति तथाऽयं धर्मोऽपि, तथाऽयं धर्मश्च 'परमः' प्रकृष्टो गुरुः, यथा गुरुरसन्मार्गान्निवर्तयति तथाऽयं धर्मोऽपि नरकतिर्यङ्मार्गान्निवारयिता, तथा 'मोक्षमार्गप्रवृत्तानां' शिवपथप्रचलितानां जीवानामयं धर्मः परमः 'स्यन्दनो' रथो यथा स्यन्दनेन मार्गे सुखेन गम्यते तथा धर्मेणाऽपि मोक्षमार्गे प्रवृत्ताः पुरुषाः सुखेन शिवपुरीं गच्छन्ति ।। १०१ ।।
1
हे जीव ! त्वं 'विषमे' दुस्सञ्चारे, तथाऽनन्तदुःखान्येव ग्रीष्मतापस्तेन 'सन्तप्ते' उपद्रुते, एवंविधे भव एव संसार एव 'मरुदेशो' मरुस्थलं, तस्मिन् १. बंधू इत्यपि पाठः । २. न पूजनादिति [ ५-४-६९ पा.] स्वतिभ्यां न टच् ।
५९ वैराग्यशतकम्