________________
शासनदीपक श्री विद्याविजयगुरु
वन्दना । आबाल्य ब्रह्मचर्य जिनवचनवलात् पालयन्त विधाये, निष्णाता आगमाब्धौ जनिमृतिभयद मोहशत्रं जयन्तः । त्यक्त्वा स्वार्थ परार्थ मुविमलहृदये धर्मध्यान दधाना, जीयासुस्ते हि विद्याविजयगुरुवराः भूतले ज्ञानपूर्णाः ॥१॥ यद्वाचामृतपानलुध्धमनसः प्राज्ञाः सदोपासते, ये भव्यान प्रतिबोधन्ति वचनैः सद्धर्मतत्वं मुदा । तत्वातत्वविचारणकपटवो विद्याब्धिपारं गता, स्ते विद्याविजया जयन्तु भुवने चारित्ररत्नाकराः ॥२॥ येऽजस्र परित्यज्य स्वार्थमखिलं लोकोपकारोद्यताः, येषां नो हृदये सदा स्वपरता येषां कुटुम्ब जगत् । हेयादेय समस्त वस्तु निवहं ये बोधयन्तो जनान् , तद्विद्याविजयाँधिः पद्मयुगलं. ध्यायामि मे मानसे ॥३॥
. -पं. पूर्णानन्दविजय (कुमारश्रमण) EDIODOOD