________________
स्थानांगसूत्र
९१
તેવી જ રીતે બે કૃત્તિકા, બે રોહિણી, બે મૃગશિર, બે આર્દ્રા, બે પુનર્વસૢ, આ જ રીતે બધા નક્ષત્રો બબ્બે છે.
१) इत्तिअ, २) रोडिशी, 3) भृगशिर, ४) खार्द्रा, 4) पुनर्वसू, ६) पुष्य, ७) आश्लेषा, ८) भधा, ८) पूर्वाझल्गुनी, १०) उत्तरााल्गुनी, ११) हस्त, १२) चित्रा, १३) स्वाति, १४) विशाखा, १५) अनुराधा, १६) भयेष्ठा, १७) भूस, १८) पूर्वाषाढा, १८ ) उत्तराषाढा, २०) अमित, २१) श्रवा, २२) धनिष्ठा, २3) शतभिषा, २४) पूर्वाभाद्रप, २५) (उत्तराभाद्रप६, २६) रेवती, २७) अश्विनी, २८) भरली.
આ પ્રમાણે જંબુદ્વીપની વેદિકા આદિની બે ગાઉની ઉંચાઇ આદિ બીજેથી જાણવા જોઇએ.
113011
तदेवं स्तोकेन पुद्गलजीवधर्मानभिधाय सर्वं जीवाजीवात्मकमित्येतत्सूचनायाह— समयावलिके आनपानस्तोकौ क्षणलवौ मुहूर्त्ताहोरात्रे पक्षमासौ ऋत्वय संवत्सरयुगे जीवाजीवरूपे तत्पर्यायत्वात् ॥ ३१॥
समयेति, सर्वेषां कालप्रमाणानामाद्यः परमसूक्ष्मोऽभेद्यो निरवयव उत्पलशतव्यतिभेदाद्युदाहरणोपलक्षितः समयः, असंख्यातसमयसमुदायात्मिकाऽऽवलिका क्षुल्लकभवग्रहणकालस्य षट्पञ्चाशदुत्तरद्विशततमभागभूता । तत्र समय इत्यावलिकेति वा यत्कालवस्तु तदविगानेन जीवो जीवपर्यायत्वात् पर्यायपर्यायिणोश्च कथञ्चिदभेदात्, पुद्गलानां पर्यायत्वे चाजीव इत्यभिधीयते, न तु जीवादिव्यतिरेकिणः समयादयो जीवाजीवानां हि सादिसपर्यवसानादिस्थितिविशेषाः, स्थितिश्च तेषां धर्मत्वान्नात्यन्तं धर्मिणो भिन्ना, अत्यन्तभेदे हि विप्रकृष्टधर्ममात्रोपलम्भे प्रतिनियतधर्मविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य भेदाविशेषात्, अनुभूयते च विटपिविकटशाखाविसरान्तराले किमपि शुक्लं पश्यतः किमियं पताका बलाका वेति संशयः प्रतिनियतधर्मिविषयः । सर्वथाऽभेदेऽपि संशयानुपपत्तिरेव, गुणग्रहणे तदभिन्नगुणिनोऽपि ग्रहात् । उच्छासनिःश्वासकालाः संख्यातावलिकाप्रमाणा आनपानौ । सप्तोच्छ्वासनिःश्वासप्रमाणः स्तोकः । संख्यातानः पानलक्षणः क्षणः, सप्तस्तोकप्रमाणो लवः । त्रिंशन्मुहूर्त्तप्रमाणमहोरात्रम् । पञ्चदशाहोरात्रप्रमाणः पक्षः । द्विपक्ष मास: । द्विमासमानो ऋतुः, ऋतुत्रयमानमयनम् । अयनद्वयमानः संवत्सरः । पञ्च संवत्सराणि - युगम्, एवं चतुरशीति-वर्षलक्षप्रमाणं पूर्वाङ्गं तदेव चतुरशीतिलक्षगुणितं पूर्वं एवं पूर्वपूर्वं चतुरशीतिलक्षगुणितं त्रुटिताङ्गादिकं शीर्षप्रहेलिकापर्यन्तं भाव्यम् । शीर्षप्रहेलिकान्तः सांव्यवहारिकः संख्यातकाल:, तेन च संख्यातायुषां प्रथमपृथिवीनारकाणां भवनपतिव्यन्तराणां