________________
७३
स्थानांगसूत्र
जीवविशेषाश्रयेणैव द्वैविध्यप्रकारमाहअनन्तरावगाढगतिसमापन्नपरिणतपर्याप्तकसूक्ष्माः सविपक्षा एकेन्द्रियाः ॥१८॥
अनन्तरेति, एकेन्द्रियाः पृथिव्यादयः, सूक्ष्मबादरापेक्षया पर्याप्तकापर्याप्तकापेक्षया परिणतापरिणतापेक्षया गतिसमापन्नागतिसमापन्नापेक्षयाऽनन्तरावगाढपरम्परावगाढापेक्षया च द्विविधा भवन्ति, सूक्ष्मा बादरास्तत्तत्कर्मोदयवर्तिनः, सूक्ष्माः सर्वलोकव्यापिनो बादराः पृथिवीनगादयः, एषां सूक्ष्मबादरता नापेक्षिकी किन्तु कर्मोदयप्रयुक्तैव । अपर्याप्तनामकर्मोदयादपर्याप्तका ये स्वपर्याप्तीन पूरयन्ति, पर्याप्तनामकर्मोदयाच्च पर्याप्ता ये चतस्रः पर्याप्ती: पूरयन्ति, पर्याप्तिश्च पुद्गलोपचयजः शक्तिविशेषः, स चाहारशरीरेन्द्रियानपानभाषामनोभेदेन षोढा, तत्रैकेन्द्रियाणां चतस्रः, विकलेन्द्रियाणां पञ्च संज्ञिनां षट्, एता युगपदारब्धा अन्तर्मुहूर्तेन निर्वर्त्यन्ते, आहारपर्याप्तेस्तु निर्वृत्तिकालः समय एव । अपर्याप्तकाश्चोच्छासपर्याप्त्याऽपर्याप्ता एव म्रियन्ते न तु शरीरेन्द्रियपर्याप्तिभ्याम्, आगामिभवायुष्कबन्धेन मरणात्तद्वन्धस्य च शरीरेन्द्रियादिपर्याप्त्या पर्याप्तेनैव साध्यत्वात् । स्वकायपरकायशस्त्रादिना परिणामान्तरमापादिताः परिणता अचित्तीभूता इत्यर्थः, तत्र द्रव्यतः शस्त्रादिना मिश्रेण द्रव्येण, कालतः पौरुष्यादिना कालेन, भावतो वर्णगन्धरसस्पर्शान्यथात्वेन क्षेत्रतो योजनशतात् परतः परिणताः । ये पृथिवीकायिकाद्यायुष्कोदयात् पृथिवीकायिकादिव्यपदेशवन्तो विग्रहगत्योत्पत्तिस्थानं व्रजन्ति ते गतिसमापन्नाः, अगतिसमापन्नास्तु स्थितिमन्तः । सम्प्रत्येव समये क्वचिदाकाशदेश आश्रितास्त एवानन्तरावगाढाः, येषान्तु व्यादयः समया अवगाढानां ते परम्परावगाढाः । एवं द्रव्यं परिणतापरिणतभेदेन गतिसमापन्नागतिसमापन्नभेदेनानन्तरावगाढपरम्परावगाढभेदेन द्विविधम्, उत्सपिण्यवसर्पिणीभेदेन कालो लोकालोकभेदेनाकाशश्च द्विविधो विज्ञेयः ॥१८॥
સંયમ જીવ, અજીવના વિષયવાળું હોવાથી હવે જીવ વિશેષના આશ્રય વડે જ બે પ્રકાર કહે છે. __ अनन्तरेति, भेन्द्रियो पृथ्वी माह सूक्ष्म अने बा६२, ५यप्ति भने अप्ति , परित भने અપરિણત, ગતિ સમાપન્ન અને અગતિ સમાપન્ન, અનંતર અવગાહેલ અને પરંપર અવગાહેલની અપેક્ષાએ બે પ્રકારે છે.
સૂક્ષ્મ નામ કર્મના ઉદયમાં રહેલા તે સૂક્ષ્મ. બાદર નામ કર્મના ઉદયમાં રહેલા તે બાદર.
સૂક્ષ્મ સર્વલોક વ્યાપી છે. બાદર પૃથ્વી, પર્વત આદિ. આ જીવોની સૂક્ષ્મ અને બાદરતા અપેક્ષાએ નથી પરંતુ કર્મના ઉદયથી છે.