________________
समवायांगसूत्र
५३३ सौधर्मेति, सौधर्मः शक्रेन्द्रपालितः प्रथमदेवलोकः, तस्य मध्यभागवति शक्रनिवासभूतं विमानं सौधर्मावतंसकम्, अत्र हि कल्पे चतुर्दिक्षु चत्वारि विमानानि मध्ये च पञ्चमं सौधर्मावतंसकम् तस्मादेकैकस्यां दिशि प्राकराभ्यर्णवर्तीनि नगराकाराणि भौमानि पञ्चषष्टिर्भवन्ति ॥५७॥
(સામાન્યથી) પ્રતિમા વહન કરનારા (સાધુ) અવશ્ય વૈમાનિક તરીકે ઉત્પન્ન થાય છે તે વૈમાનિક સંબંધિ વક્તવ્યતા ૬૫ મા સમવાયથી કહે છે.
સૌધર્મ દેવલોક એટલે શક્રેન્દ્ર દ્વારા પાલિત પ્રથમ દેવલોક તે દેવલોકના મધ્યભાગમાં શક્રના નિવાસનું સ્થાન એવું સૌધર્માવલંસક વિમાન છે. આ પ્રથમ કલ્પમાં ચારે દિશામાં ચાર વિમાનોની મધ્યમાં પાંચમું સૌધર્માવલંસક વિમાન હોય છે એ સૌધર્માવલંસક વિમાન ચારે દિશામાં પ્રાકાર (કિલ્લા) નિકટવર્તિ નગર જેવા આકારવાળા ભૌમ હોય છે. જેની સંખ્યા ૬૫ છે. પછી
वैमानिकेषु सूर्यचंद्रप्रकाशाभावात्प्रकाश्यक्षेत्रं तत्संख्याञ्चाहषट्षष्टिश्चन्द्राः सूर्याश्च मानुषक्षेत्रस्य दक्षिणार्धमुत्तरार्धञ्च प्रभासयन्ति ॥५८॥
षट्षष्टिरिति, जम्बूद्वीपधातकीखण्डपुष्करवरद्वीपार्धरूपा द्वीपा द्वौ च लवणोदधिकालोदधिरूपौ समुद्रौ मानुषं क्षेत्रं तत्रैव मनुष्याणामुत्पत्तेर्मरणाच्च, अत्रैव सुषमसुषमादयः कालविभागाः, मानुषक्षेत्रात् परतस्तु सर्वमपि देवारण्यं देवानां क्रीडास्थानम्, न तत्र जन्मतो मनुष्या नापि कोऽपि तत्र कालविभागः, मानुषक्षेत्रे चन्द्रसूर्यग्रहनक्षत्रतारागणा विचरणशीलाः शेषेषु द्वीपसमुद्रेषु ज्योतिश्चक्रं सदाऽवस्थानशीलम् । तथा च द्वौ चन्द्रौ जम्बूद्वीपे चत्वारो लवणसमुद्रे द्वादश धातकीखण्डे द्विचत्वारिंशत्कालोदधिसमुद्रे द्विसप्ततिश्च पुष्कराधे, सर्वे चैते द्वात्रिंशदधिकं शतम्, एतदर्धञ्च षट्षष्टिदक्षिणपंक्तौ षट्षष्टिश्चोत्तरपंक्तौ स्थिताः, एवं सूर्या अपि, एवञ्चेहलोके मानुषे चन्द्रसूर्याणां चतस्रः पंक्तयः, द्वे पंक्ती चन्द्राणां द्वे च सूर्याणाम्, एकैका च पंक्तिः षट्षष्टिः, एकः किल सूर्यो जम्बूद्वीपे मेरोदक्षिणभागे चारं चरन् वर्त्तते एक उत्तरभागे, एकश्चन्द्रमा मेरोरुत्तरभागे, एकोऽपरभागे, तत्र यो मेरोदक्षिणभागे सूर्यश्चारं चरन् वर्त्तते तदा तत्समश्रेणिव्यवस्थितौ द्वौ दक्षिणभागे सूर्यों लवणसमुद्रे षड् धातकीखण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्कराधे, अस्यां सूर्यपंक्तौ षट्षष्टिः सूर्या जाताः, उत्तरभागेऽपि तथा, चन्द्रा अपि पूर्वभागेऽपरभागे च तथा । एते सूर्याश्चन्द्राश्चानवस्थितमण्डला यथायोगमन्यस्मिन्नन्यस्मिन् मण्डले सञ्चरन्तः प्रदक्षिणावर्त्तमण्डला मेरुं लक्षीकृत्य परिभ्रमन्ति, तेषां प्रदक्षिणावर्तगतेः प्रत्यक्षत एवोपलभ्यमानत्वात् ॥५८॥