________________
समवायांगसूत्र
५१७ आद्यः, द्वितीयस्तु त्रिविधः, ज्ञशरीरं भव्यशरीरं तदुभयव्यतिरिक्तश्च, भिक्षुपदार्थज्ञस्य जीवापेतं शरीरं ज्ञशरीरम्, भूतभावत्वात् । यस्तु बालको नेदानी भिक्षुशब्दार्थमवबुध्यते भोत्स्यतेऽनेनैव शरीरेण तस्य शरीरं भव्यशरीरं भाविभावत्वात् । तदुभयव्यतिरिक्तश्च त्रिधा, एकभविकः, बद्धायुष्कः, अभिमुखनामगोत्रश्च, यो नैरयिकस्तिर्यङ्मनुष्यो वा देवो वाऽनन्तरभवे भिक्षुर्भावी स एकभविकः । येन भिक्षुपर्यायनिमित्तमायुर्बद्धं स बद्धायुष्कः, यस्य भिक्षुपर्यायप्रवर्तनाभिमुखे नामगोत्रे कर्मणी स चाऽऽर्यक्षेत्रे मनुष्यभवे भाविभिक्षुपर्याये समुद्यमानः, यद्वा स्वजनधनादि परित्यज्य गुरुसमीपे प्रव्रज्याप्रतिपत्त्यर्थं स्वगृहाद्बहिर्गच्छति सोऽभिमुखनामगोत्रः । भावभिक्षुर्द्विधा, आगमतो नोआगमतश्च, आगमतो भिक्षुशब्दार्थवेत्ता तत्र चोपयुक्तः । नोआगमतस्तु सम्यक् त्रिविधं त्रिविधेन समस्तसावद्यादुपरतस्संयतः । गृहस्था अन्यतीथिक लिङ्गिनो वा न नोआगमतो भावभिक्षवः, भिक्षुशब्दप्रवृत्तिनिमित्तस्य तत्राभावात्, भिक्षुशब्दस्य हि द्वे निमित्ते, व्युत्पत्तिनिमित्तं प्रवृत्तिनिमित्तञ्च, भिक्षत इत्येवंशीलो भिक्षुरिति व्युत्पत्त्या भिक्षणं व्युत्पत्तिनिमित्तम्, तेन भिक्षणेनैकार्थे समवायितया यदुपलक्षितमिह परलोकाशंसाविप्रमुक्ततया यमनियमेषु व्यवस्थितत्वं तत्प्रवृत्तिनिमित्तम्, तेन भिक्षमाणेऽभिक्षमाणे वा भिक्षौ भिक्षुशब्दः प्रवर्तते, उभय्यामप्यवस्थायां प्रवृत्तिनिमित्तसद्भावात्, अन्यत्र च गृहस्थादौ न प्रवर्तते, नवकोट्यपरिशुद्धाहारभोजितया तेषु यथोक्तस्य प्रवृत्तिनिमित्तस्याभावात्, नहि गमनक्रियामात्रागौः, किन्तु गमनेनैकार्थसमवायितया यदुपलक्षितं सास्नादिमत्त्वं तद्योगादेवेति । तेषां प्रतिमा-अभिग्रहविशेषः, सप्त सप्तकदिनानि यस्यां सा सप्तसप्तकिका, सप्तसु सप्तकेषु सप्त सप्त दिनानि भवन्तीति सा एकोनपञ्चाशता दिनैर्भवति, तत्र प्रथमे सप्तके प्रतिदिवसमेकैकां भिक्षां गृह्णाति, द्वितीये सप्तके प्रतिदिवसे द्वे द्वे भिक्षे, तृतीये सप्तके प्रतिदिवसं तिस्रस्तिस्रः, चतुर्थे चतस्रश्चतस्रः, पञ्चमे पञ्च पञ्च, षष्ठे षट् षट्, सप्तमे सप्त सप्तेति सप्तसप्तकिकायां भिक्षापरिमाणं षण्णवतं शतम् ॥४१॥
ગણધર પ્રકાશિત પ્રતિમા વિશેષ હવે કહે છે.
યમ અને નિયમ માં રહેલો, કૃત-કારિત-અનુમોદિતના પરિહારપૂર્વક જે ભિક્ષા ગ્રહણ કરે છે. તે ભિક્ષુ છે. પકાવવું અને પકાવડાવવુરૂપ પાપાનુષ્ઠાન રહિતપણે નિર્દોષ આહારને ખાનારો साधु छ.
તે ભિક્ષુના નામ-સ્થાપના-દ્રવ્ય અને ભાવ એમ ચાર નિક્ષેપ કરવા તેમાં નામ અને સ્થાપના સુગમ છે. દ્રવ્યભિક્ષુ = આગમતઃ અને નોઆગમત બે ભેદ છે. એમાં ભિક્ષુનો અર્થ જાણતો હોવા છતાં એ અર્થમાં જ્યારે એ ઉપયુક્ત નથી એ આગમતો દ્રવ્ય ભિક્ષુ છે. (આઘ) દ્વિતીય -