________________
समवायांगसूत्र
५११
ઉપર્યુક્ત (૩૬ હજાર સાધ્વીજી) ની સંપદા ધારણ કરનારા મહાવીરસ્વામીજીના શ્રમણકાલને હવે કહે છે.
પ્રભુ મહાવીરનો છદ્મસ્થ પર્યાય ૧૨ વર્ષ ૬ મહિના અને અર્ધમાસ હતો અને ૬ માસ ઉણાં ૩૦ વર્ષ પ્રભુવીરનો કેવલી પર્યાય હતો.
બન્ને પર્યાય મળીને ૪૨ વર્ષ કંઇક સાધિક મહાવીર પ્રભુનો શ્રામણ્ય પર્યાય દીક્ષાકાલ edì. 113811
उपर्युक्तश्रामण्यपर्यायवता महावीरेणोक्ता नारकावाससंख्या आह
प्रथमचतुर्थपञ्चमपृथिवीषु त्रिचत्वारिंशत्शतसहस्त्राणि नरकावासाः ॥ ३५ ॥
प्रथमेति, रत्नप्रभापङ्कप्रभाधूमप्रभाभिधानासु पृथिवीष्वित्यर्थः, आवसन्ति येषु ते आवासाः, नरकाश्च ते आवासाश्च नरकावासाः, तत्र रत्नप्रभायां प्रथमपृथिव्यां त्रयोदशप्रस्तराः, प्रस्तरा नाम वेश्मभूमिकाकल्पाः, तत्र प्रथमे प्रस्तरे पूर्वादिषु दिक्षु प्रत्येकमेकोनपञ्चाशन्नरकावासाः, चतसृषु विदिक्षु प्रत्येकमष्टचत्वारिंशत्, मध्ये च सीमन्तकाख्यो नरकेन्द्रकः, सर्वसंख्यया प्रथमप्रस्तरे नरकावासानामावलिकाप्रविष्टानामेकोननवत्यधिकानि त्रीणि शतानि शेषेषु च द्वादशसु प्रस्तरेषु प्रत्येकं यथोत्तरं दिक्षु विदिक्षु च एकैकनरकावासहानिभावात् अष्टकाष्टकहीना नरकावासाः, ततः सर्वसंख्यया रत्नप्रभायां पृथिव्यामावलिकानरकावासाश्चतुश्चत्वारिंशच्छतानि त्रयस्त्रिंशदधिकानि शेषासुस्तु एकोनत्रिंशल्लक्षाणि पञ्चनवतिसहस्राणि पञ्चशतानि सप्तषष्ट्यधिकानि प्रकीर्णकाः, उभयमीलने त्रिंशल्लक्षा नरकावासानाम् । पङ्कप्रभायां चतुर्थपृथिव्यां सप्त प्रस्तराः, प्रथमे प्रस्तरे प्रत्येकं दिशि षोडशावलिकाप्रविष्टा नरकावासाः, विदिशि पञ्चदश, मध्ये चैको नरकेन्द्रकः, सर्वसंख्यया च पञ्चविंशं शतम्, शेषेषु षट्सु प्रस्तरेषु पूर्ववत्प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकहानिः, ततः सर्वसंख्यया तत्रावलिकाप्रविष्टा नारकावासा सप्तशतानि सप्तोत्तराणि, शेषास्तु पुष्पावकीर्णका नवलक्षा नवनवतिसहस्राणि द्वे शते त्रिनवत्यधिके, उभयमीलने नरकावासानां दशलक्षाः । धूमप्रभायां पञ्चमपृथिव्यां पञ्चप्रस्तराः, प्रथमे च प्रस्तरे एकैकस्यां दिशि नवनव आवलिका प्रविष्टा नारकावासाः, विदिश्यष्टौ मध्ये चैको नरकेन्द्रकः, इति सर्वसंख्यया एकोनसप्ततिः, शेषेषु च चतुर्षु प्रस्तरेषु पूर्ववत् प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकहानि:, ततः सर्वसंख्यया तत्रावलिकाप्रविष्टा नरकावासा द्वे शते पञ्चषष्ट्यधिके, शेषाः पुष्पावकीर्णका द्वे लक्षे नवनवतिसहस्राणि सप्तशतानि पञ्चत्रिंशदधिकानि, उभयंमीलने सर्वसंख्यया तिस्रो लक्षा नरकावासाः, प्रथमचतुर्थपञ्चमपृथिवीनरकावाससंख्यानां मीलने च त्रिचत्वारिंशच्छतसहस्राणीति ॥३५॥