SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ४२ आत्मधर्माश्रयेणाह अथ स्थानमुक्तासरिका भवधारणशरीरविकुर्वणामनोवाक्कायव्यापारादयोऽपि तथा, सामान्यादेकदैक स्यैव भावाच्च ॥५॥ भवेति, वैक्रियशरीरं द्विविधं भवधारणीयमुत्तरवैक्रियञ्चेति । तत्र बाह्यपुद्गलग्रहणमन्तरेण भवधारणीयवैक्रियशरीररचना स्वस्वोत्पत्तिस्थाने जीवैः क्रियते तच्च विरचनं सर्वं तत्सामान्यात्कथञ्चिदेकम्, एकस्मिन् समय एकजीव एकस्यैव भावाद्वैकम्, उत्तरवैक्रियञ्च बाह्यपुद्गलग्रहणान्निर्वर्त्यते सा च रचना विचित्राभिप्रायपूर्वकत्वाद्वैक्रियलब्धिमतस्तथाविधशक्तिमत्त्वाच्त्वैकजीवस्याप्यनेकापि स्यात् । मननं मनः, औदारिकादिशरीरव्यापाराहृतमनोद्रव्यसाचिव्याज्जीवव्यापारो मनोयोग इति भावः, मन्यतेऽनेनेति वा मनो द्रव्यविशेषः तच्च मनः सत्यादिभेदादनेकमपि संज्ञिनां वाऽसंख्यातत्वादसंख्यात भेदमपि मननलक्षणत्वेन सर्वमनसामेकत्वादेकम्, यस्मिन् वा समये विचार्यते तस्मिन् समय एकजीवापेक्षया एक एव मनोयोगः न क्वचनापि समये द्वयादिसंख्यः सम्भवति ततो जीवानामेकोपयोगादेकत्वं तस्य, न च नैकोपयोगो जीवः, युगपच्छीतोष्णस्पर्शविषयसंवेदनद्वयदर्शनात्तथाविधभिन्नविषयोपयोगपुरुषद्वयवदिति वाच्यम्, भिन्नसमयत्वाच्छीतोष्णोपयोगस्य, यौगपद्यप्रतीतिस्तु समयमन - सोरतिसूक्ष्मत्वात्, न पुनर्युगपदेव, अन्यथाऽन्यत्र गतचेताः पुरोवस्थितं हस्तिनमपि किं न विषयीकरोतीति । सत्यादिस्वरूपाणां वा मनोयोगानामेकदैकस्यैव भावो न द्वयादीनां विरोधादिति । वचनं वाक्, औदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, स च सत्यादिभेदादनेकोऽप्येक एव सर्ववाचां वचनसामान्येऽन्तर्भावात्, एकस्यैकदा भावाद्वैकम् । औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणति - विशेष: काययोगः, स चौदारिकादिभेदेन सप्तप्रकारोऽपि जीवानन्तत्वेनानन्तभेदोऽपि काययोगसामान्यादेक एव, सप्तानां काययोगानामेकदैकतरस्यैवैकस्य भावादेकदा स एक एव । नन्वेकदा कथं न काययोगद्वयम्, आहारकप्रयोगकाले चौदारिकावस्थिते: श्रूयमाणत्वादिति चेन्न तत्सत्त्वेऽपि तस्य व्यापाराभावात्, तस्यापि तदा व्याप्रियमाणत्वे मिश्रयोगतैव स्यात्, केवलिसमुद्घाते सप्तमषष्ठद्वितीयसमयेष्वौदारिकमिश्रवत्, तथा केवलाहारकप्रयोक्ता न लभ्येत, एवञ्च सति सप्तविधकाययोगप्रतिपादनमनर्थकं स्यादत एक एव काययोगः । एवं चक्रवर्त्त्यादेरपि कृतवैक्रियशरीरस्यौदारिकं निर्व्यापारमेव, सव्यापारत्वे चोभयस्य व्यापारवत्त्वेन मिश्रयोगतया तथाप्येकत्वस्याव्याहतत्वात्, क्रमेण
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy