________________
४५९
समवायांगसूत्र
यावदिति, यथा ये देवाः सागरादिलोकहितावसानं विमानमासाद्य देवत्वेनोत्पन्ना न तु देवीत्वेन तासां सागरोपमस्थितेरसम्भवात् तेषां देवानामेकं सागरोपमं स्थिति: विमानमेतत्सप्तमे प्रस्तरे, येषाञ्चैकसागरोपमं स्थितिः ते देवा एकस्यार्धमासस्यान्ते उच्छसन्ति निःश्वसन्ति वा तेषामेकस्य वर्षसहस्रस्यान्ते आहारार्थमाहारपुद्गलानां ग्रहणमाभोगतो भवति अनाभोगतस्तु प्रतिसमयमेव ग्रहणं विग्रहगतेरन्यत्र भवति । ये शुभादि सौधर्मावतंसकावसानं विमानमासाद्य देवत्वेनोत्पन्नाः तेषामुत्कर्षेण द्वे सागरोपमे स्थितिः । तथाविधानां द्वयोरर्धमासयोरन्ते उच्छ्वासादयः द्वयोर्वर्षसहस्रयोरन्ते आहार पुद्गलग्रहणम् । ये देवा आभङ्करादि चन्द्रोत्तरावतंसकावसानं विमानमासाद्य देवत्वेनोत्पन्नास्तेषामुत्कर्षेण त्रीणि सागरोपमाणि स्थितिः त्रयाणामर्धमासानामन्ते उच्च्छासादयः त्रयाणां वर्षसहस्राणामन्ते आहारपुद्गलग्रहणम् । कृष्ट्यादि कृष्ट्युत्तरावतंसकावसानं विमानमासाद्य ये देवत्वेनोत्पन्नास्तेषामुत्कर्षेण चत्वारि सागरोपमाणि स्थितिः, तदनुसारेणोच्छ्वासादयः । वातसुवातादि वायुत्तरावतंसकावसानं विमानमासाद्य ये देवत्वेनोत्पन्नास्तेषामुत्कर्षेण पञ्च सागरोपमाणि स्थिति: । स्वयम्भूस्वयंभूरमणादि वीरोत्तरावतंसकावसानं विमानमासाद्य देवत्वेनोत्पन्नानामुत्कर्षतः षट् सागरोपमाणि स्थिति: समसमप्रभादि सनत्कुमारावतंसकान्तं विमाने देवत्वेनोत्पन्नानामुत्कर्षेण सप्त सागरोपमाणि स्थितिः, अर्चिरर्चिमाल्यादि अनुत्तरावतंसकावसाने विमाने देवत्वेनोत्पन्नानामुत्कर्षेण अष्ट सागरोपमाणि स्थितिः । पद्मसुपद्मादि रुचिलोत्तरावतंसकावसाने विमाने देवत्वेनोत्पन्नानामुत्कर्षेण नव सागरोपमाणि स्थितिः, घोषसुघोषादि ब्रह्मलोकावतंसकावसाने विमाने देवत्वेनोत्पन्नानामुत्कर्षतो दश सागरोपमाणि स्थिति: एवमग्रेऽपि भावनीयम् ॥६॥
હવે પોતાની સ્થિતિ અનુસાર દેવોની શ્વાસોચ્છ્વાસાદિ કહે છે.
જે દેવતાઓ ‘સાગરાદિલોકહિતાવસાન' (જ્યોતિ) વિમાનમાં દેવી તરીકે નહીં પરંતુ દેવ તરીકે ઉત્પન્ન થાય છે તેઓનો સ્થિતિ એક સાગરોપમની હોય છે. કારણકે દેવીઓની સાગરોપમની સ્થિતિ સંભવતી નથી. આવા એક સાગરોપમવાળા દેવતાઓ સાતમા પ્રસ્તરમાં રહ્યા હોય છે. અને તેઓ દર પંદર દિવસે શ્વાસોચ્છ્વાસ લે છે. તથા તેઓ એક હજાર વર્ષે ઇચ્છાપૂર્વક આહાર ક૨વા માટે આહા૨વર્ગણાના પુદ્ગલો ગ્રહણ કરે છે. પરંતુ આ દેવતાઓ અનાભોગથી વિગ્રહગતિ વિના પ્રત્યેક સમયે આહાર માટે પુદ્ગલ ગ્રહણ કરે છે.
જે દેવો સૌધર્માવતંસક સુધીના દેવલોકમાં દેવ પણે ઉત્પન્ન થયા છે તેઓની બે સાગરોપમની સ્થિતિ હોય છે. તેવા દેવતાઓનું એક મહિને ઉચ્છ્વાસાદિ અને બે હજાર વર્ષે આહાર માટે पुछ्गल ग्रह होय छे..