________________
३२२
अथ स्थानमुक्तासरिका
संहननसंस्थाने आह
वज्रर्षभनाराचर्षभनाराचनाराचार्द्धनाराचकीलिकासेवार्तानि संहननानि, समचतुरस्रन्यग्रोधपरिमण्डलसादिकुब्जवामनहुण्डानि संस्थानानि ॥१७१॥
वजेति, संहननमस्थिसञ्चयः, शक्तिविशेष इत्यन्ये, तत्र वज्रं-कीलिका ऋषभः परिवेष्टनपट्टः, नाराच:-उभयतो मर्कटबन्धः, यत्र द्वयोरस्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकाकारं वज्रनामकमस्थि भवति तद्वज्रर्षभनाराचम् । यत्र तु कीलिका नास्ति तदृषभनाराचम् । यत्र तूभयोर्मर्कटबन्ध एव तन्नाराचम्, यत्र त्वेकतो मर्कटबन्धो द्वितीयपार्वे कीलिका तदर्धनाराचम्, कीलिकाविद्धास्थिद्वयसञ्चितं कीलिकम् । अस्थिद्वयपर्यन्तस्पर्शनलक्षणां सेवामा सेवामागतमिति सेवार्तम् । शक्तिपक्षे त्वेवंविधदार्वादेरिव दृढत्वं संहननम् । संस्थानं अवयवरचनात्मिका शरीराकृतिः, तत्र समाः-शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत् समचतुरस्रम् । आश्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवास्ततश्च सर्वेऽप्यवयवाः शरीरलक्षणोक्तप्रमाणाव्यभिचारिणो यस्य न तु न्यूनाधिकप्रमाणास्तत्तुल्यं समचतुरस्रम् । न्यग्रोधवत्परिमण्डलं न्यग्रोधपरिमण्डलम्, यथा न्यग्रोध उपरिसम्पूर्णावयवोऽधस्तनभागे तु न तथेदमपि नाभेरुपरि विस्तृतबहुलं शरीरलक्षणभाक्, अधस्तु हीनाधिकप्रमाणमिति । सादि, आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते तेन शरीरलक्षणभाजा सह वर्तते यत्तत् सादि, सर्वमेव हि शरीरमविशिष्टेनादिना सह वर्तत इति विशेषणान्यथानुपपत्तेरिह विशिष्टता लभ्यते, अतः सादि-उत्सेधबहुलं परिपूर्णोत्सेधमित्यर्थः । यत्र पाणिपादशिरोग्रीवं लक्षणव्यभिचारि शेषं लक्षणयुतं तत्कुब्जम् । तद्विपरीतं वामनम्, हुण्डन्त्वेकोऽप्यवयवो यत्र प्रमाणयुतो न भवति तदिति ॥१७१।।
હવે સંઘયણ અને સંસ્થાન કહે છે. સંહનન - હાડકાનો સંચય. અન્ય આચાર્યો સંઘયણને શક્તિ વિશેષ કહે છે.
(१) तभi 48मनाराय :- १४ = ATA5t (40l) 28 = योत२६ वीटयानो पाटो, नाराय = जने ५पेथी म2i4.
જેમાં બે અસ્થિ બંને પડખેથી મર્કટબંધ વડે બંધાયેલ હોય અને પટ્ટની આકૃતિવાળા ત્રીજા હાડકા વડે વીંટાયેલ હોય, વળી તેના ઉપર તે ત્રણ હાડકાને ભેદનારૂં ખીલીના આકારવાળું વજ નામનું હાડકું હોય તે વજઋષભનારાંચ નામનું પહેલું સંઘયણ. .