SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २९६ अथ स्थानमुक्तासरिका भयेति, आषाढ श्रावणौ प्रावृट् आषाढस्तु प्रथमप्रावृट, ऋतूनां वा प्रथमत्वात् प्रथमप्रावृट् अथवा चतुर्मासप्रमाणो वर्षाकालः प्रावृडिति विवक्षितः, अत्र सप्ततिदिनप्रमाणे प्रावृषो द्वितीये भागे गन्तुं तावन्न कल्पते एव, प्रथमभागेऽपि पञ्चाशद्दिनप्रमाणे विंशतिदिनप्रमाणे वा न कल्पते जीवव्याकुलभूतत्वात्, उक्तञ्च ‘अत्र चानभिगृहीतं विंशतिरात्रि सविंशतिं मासं । तेन परमभिगृहीतं गृहिज्ञानं कार्तिकं यावत्' ॥ इति, अत्रानभिगृहीतं-अनिश्चितमशिवादिभिनिर्गमभावात् । यत्र संवत्सरेऽधिकमासो भवति तत्राषाढ्या विंशतिर्दिनानि यावदनभिग्रहिकः आवासोऽन्यत्र सविंशतिरात्रं मासं-पञ्चशतं दिनानीति । तत्र प्रावृष्येकस्माद्नामान्तरं विहर्तुं न कल्पत इत्युत्सर्गः, भयादिकारणे त्वपवादः, उक्तञ्च 'आवाहे दुर्भिक्षे भये महति दकौधे । परिभवनं ताडनं वा यदा परः करिष्यति' इति । वर्षावासमिति, वर्षास्वावासोऽवस्थानं स च जघन्यत आ कात्तिक्या दिनसप्ततिप्रमाणो मध्यवृत्त्या चतुर्मासप्रमाण उत्कृष्टत षण्मासमानः, तत्र पर्युषितानां-सामस्त्येनोषितानां पर्युषणाकल्पेन नियमवत् वस्तुमारब्धानां ग्रामान्तरविहरणं न कल्पते, पर्युषणाकल्पश्च न्यूनोदरताकरणं विकृतिनवकपरित्यागः पीठफलकादिसंस्तारकादानमुच्चारादिमात्रकसंग्रहणं लोचकरणं शैक्षाप्रव्राजनं प्राग्गृहीतानां भस्मडगलकादीनां परित्यजनमितरेषां ग्रहणं द्विगुणवर्षोपग्रहकरणधरणमभिनवोपकरणाग्रहणं सक्रोशयोजनात् परतो गमनवर्जनमित्यादीकः । कल्पते चेति, ज्ञानार्थतया ग्रामान्तरविहरणं कल्पते, तत्रापूर्वः श्रुतस्कन्धोऽन्यस्याचार्यादेरस्ति स च भक्तं प्रत्याख्यातुकामः, ततो यद्यसौ तत्सकाशान गृह्यते ततोऽसौ व्यवच्छिद्यते, अतस्तद्ग्रहणार्थं ग्रामान्तरगमनं कल्पत इत्यर्थः । तथा दर्शनार्थतया-दर्शनप्रभावकशास्त्रार्थित्वेन, चारित्रार्थतया तु तस्य क्षेत्रस्यानेषणास्त्र्यादिदोषदुष्टतया तद्रक्षणार्थम्, आचार्यस्योपाध्यायस्य वा विष्वग्भावो मरणं तेन कारणेन, तत्र गच्छेऽन्यस्याचार्यादेरभावाद्गणान्तराश्रयणार्थम् । प्रेषणेन-आचार्योपाध्यायानां वर्षाक्षेत्रस्य बहिस्ताद्वर्तमानानां वैयावृत्त्यकरणायाचार्यादिना प्रेषितस्य गमनं कल्पत इत्यर्थः ॥१५३।। तथा - અષાઢ અને શ્રાવણ આ માસ પ્રાવૃત્ ઋતુ છે. તેમાં અષાઢ માસ તે પ્રથમ પ્રાવૃદ્. અથવા ચાર માસના પ્રમાણવાળો વર્ષાકાળ તે પ્રાવૃત્ એમ વિવક્ષિત છે. તેમાં સીત્તેર દિવસમાં પ્રમાણવાળા પ્રાવૃના બીજા ભાગને વિષે તો વિહાર કરીને જવું કલ્પ જ નહી. અને પચ્ચાશ દિવસના પ્રમાણવાળા પ્રથમ ભાગને વિષે કારણે જવું કહ્યું નહીં. તેમાં પણ વીસ દિવસનાં પ્રમાણવાળા પ્રથમ ભાગમાં ગ્રામાંતર જવું કલ્પે નહીં. કારણ કે તે સમયે પૃથ્વી જંતુઓ વડે વ્યાકુલ હોય છે. ह्यु छ -
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy