________________
५७
अनुयोगद्वार
દશ કોટાકોટી પલ્યોપમનો એક સાગરોપમ, દશ સાગરોપમ કોટાકોટી માન અવસર્પિણી, તે જ માનની ઉત્સર્પિણી, અનંતી ઉત્સર્પિણી-અવસર્પિણીનો એક પુદ્ગલ પરાવર્ત, અનંતા તે અતીતાદ્ધા, તેટલા જ માનના અનાગતઅદ્ધા, અતીત-અનાગત-વર્તમાન સ્વરૂપ સદ્ધા, તે આ प्रभाए। छे.
अथ भावप्रमाणमाचष्टे-- गुणनयसंख्यारूपं भावप्रमाणम् ॥१९।।
गुणेति, भावो वस्तुपरिणामः यथा ज्ञानादिर्वर्णादिश्च, प्रमीयते यत्तत्प्रमाणं भाव एव प्रमाणं भावप्रमाणम् । तच्च त्रिविधं गुणप्रमाणं नयप्रमाणं संख्याप्रमाणञ्चेति, प्रमीयते हि गुणैर्द्रव्यं, गुणाश्च गुणरूपतया, अतः प्रमाणता गुणानाम्, गुणप्रमाणञ्च जीवगुणप्रमाणमजीवगुणप्रमाणमिति द्विविधम् । जीवस्य गुणा ज्ञानदर्शनचारित्राणि तद्रूपं प्रमाणमाद्यम्, तत्र ज्ञानरूपो गुणः प्रत्यक्षानुमानोपमानागमभेदतश्चतुर्विधः प्रत्यक्षमपि इन्द्रियनोइन्द्रियभेदेन द्विविधम्, ऐन्द्रियमपि पञ्चेन्द्रियापेक्षया पञ्चविधम् । नोइन्द्रियजञ्चावधिमनःपर्यवकेवलरूपम्, इन्द्रियजस्य प्रत्यक्षत्वं व्यवहारापेक्षया विज्ञेयम् । अनुमानञ्च पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति त्रिविधम् । पूर्वदृष्टलिङ्गद्वारा गमकमनुमानं पूर्ववत्, यथा मत्पुत्रोऽयमनन्यसाधारणक्षतादिलक्षणविशिष्ट-लिङ्गोपलब्धेरिति, अत्र हि बाल्यावस्थायां कोऽपि स्वदेशात्कुत्रापि पलायितः, पुनः कालान्तरे युवा सन् कथमपि प्रत्यागः, तं. तन्माता पूर्वदृष्टेन क्षतादिविशिष्टलिङ्गेनानुमिनोति पूर्ववदिदम् । न चायं हेतुस्साधर्म्यवैधर्म्यदृष्टान्ताभावादगमक इति वाच्यम्, अन्यथाऽनुपपत्तिमात्रस्यैव गमकत्वेन तस्या अत्र सत्त्वात् । जिज्ञासितार्थादन्योऽर्थश्शेषः, सो यस्य गमकस्तच्छेषवत्, तच्च पञ्चविधं, यथा हेषाशब्देन कार्येण तत्कारणमश्वमनुमिनुते, विशिष्टमेघोन्नत्या कारणेन तत्कार्यस्य वृष्टेरनुमानम्, गन्धादिना प्रतिनियतेन गुणेन तद्धेतुः पुष्पादेरनुमानम्, विशिष्टशृङ्गाद्यवयवोपलम्भेनावयविनो महिषादेरनुमानम्, घूमबलाकाद्याश्रयेणाश्रयिणो वह्निजलादेरनुमानमिति । पूर्वोपलब्धार्थेन सह साधर्म्य गमकतया यस्य तदनुमानं दृष्टसाधर्म्यवत्, पूर्वमर्थस्य सामान्यतो विशेषतो वा दृष्टत्वादिदं सामान्यदृष्टं विशेषदृष्टं चेति द्विविधम्, आद्यं तथा नालिकेरद्वीपादायातः कश्चित् कञ्चनैकं पुरुषं दृष्ट्वाऽनुमिनोति यथाऽयमेकः पुरुषः पुरिदृश्यमान एतदाकारविशिष्टस्तथाऽत्र बहवोऽपरिदृश्यमाना अपि पुरुषा एतदाकारसम्पन्ना एव, एतत्स्थानीयपुरुषत्वाविशेषात्, अन्याकारत्वे तादृक् पुरुषत्वहानिप्रसङ्गात्, गवादिवत् एवं यदि प्रथमं बहवः पुरुषा