________________
४५४
सूत्रार्थमुक्तावलिः अथ श्रावकगतं विधि सूचयितुमिन्द्रभूत्युदकयोः संवादं नालन्दाया राजगृहनगरबाहिरि कायाः समीपस्थ उद्याने मनोरथाख्ये सम्भूतं दर्शयति
अणुव्रतदाने तदन्यप्राण्युपघातजः कर्मबन्ध इति चेत् ॥८१॥
अणुव्रतेति, गौतमस्वामिसमीपमेत्योदको भगवन्नस्ति मे प्रष्टव्यः कश्चन संशयः, तस्योत्तरं यथा च भगवता सन्दर्शितं तथैव भवद्भिः प्रतिपाद्यतामिति पृष्टः प्रश्नं निशम्य गुणदोषविचारणतोऽवधार्य च सम्यगहं ज्ञास्ये तदुच्यतां भवता स्वाभिप्राय इत्युक्तोऽवादीत् यथा-गृहपति श्रमणोपासकं नियमायोत्थितं निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः प्रत्याख्यानं कारयन्ति स्थूलेषु प्राणिषु दण्डस्य, नान्यत्र राजाद्यभियोगेन प्राण्युपघाते तस्य निवृत्तिर्भवति, तथा च स्थूलेति विशेषणात्तदन्येषामनुमतिप्रत्ययदोषो भवेदेवमेव त्रसप्राणिविशेषणत्वेनापरत्रसभूतविशेषणरहितत्वेन प्रत्याख्यानं गृह्णतां श्रावकाणां दुष्प्रत्याख्यानं भवति, प्रत्याख्यानभङ्गसद्भावात्, दुष्टप्रत्याख्यानदानञ्च साधूनां दोषः, उभावपि च स्वां प्रतिज्ञामतिलयन्ति, प्रतिज्ञाभङ्गश्च-संसारे स्थावराः सन्तोऽपि प्राणिनस्तथाविधकर्मोदयात् त्रसतयोत्पद्यन्ते त्रसा अपि स्थावरतया, एवं परस्परगमेन व्यवस्थितेऽवश्यम्भावी प्रतिज्ञाविलोपः, नागरिको हि कश्चिन्मया न हन्तव्य इत्येवं येन प्रतिज्ञा गृहीता स यदा बहिरारामादौ व्यवस्थितं नागरिक व्यापादयेत्किमेतावता न तस्य प्रतिज्ञाविलोपः, अपि तु भवत्येव । अन्यभावेनोत्पन्नेषु च न तादृक् किञ्चिल्लिङ्गमुद्वीक्ष्यते येन स्थावरत्वेनाप्युत्पन्नास्त्रसाः परिहर्तुं शक्येयुः, यदि तु गृहपतिस्त्रसभूतेषु प्राणिषु दण्डं विहाय प्रत्याख्यानं करोति तदा न प्रतिज्ञाविलोपः, भूतत्वविशेषणाद्वर्तमानकाले त्रसत्वेनोत्पन्नेष्विति तदर्थः, एवमभ्युपगमे .हि क्षीरविकृतिप्रत्याख्यायिनो यथा दधिभक्षणेऽपि न प्रतिज्ञाविलोपस्तथा न त्रसभूताः सत्त्वा हन्तव्या इत्येवं प्रतिज्ञावतः स्थावरहिंसायामपि ॥८१॥
હવે શ્રાવક સંબંધિત વિધિને સૂચવવા - બતાવવા માટે ઇન્દ્રભૂતિ અને ઉદકનો સંવાદ જે નાલંદાના રાજગૃહનગરની બહાર નજીકમાં રહેલા મનોરથ નામના ઉદ્યાનમાં થયો હતો તે पता छ.
સૂત્રાર્થ - અણુવ્રત દાનમાં તેના સિવાય બીજા પ્રાણિઓને ઉપધાત થવાથી કર્મબંધ થાય છે?
टार्थ :- गौतमस्वामि पासे 65 (ओ) नामे में व्यस्त छ. ते 5 छ. भगवन् ! મારે કોઈ શંકા (સંશય) પૂછવી છે. તેનો જવાબ જે પ્રમાણે ભગવાને બતાવ્યો છે તે પ્રમાણે તમારે પ્રતિપાદન કરવો, પૂછેલો પ્રશ્ન સાંભળી ગુણદોષની વિચારણાપૂર્વક અવધારણ કરી સારી રીતે