________________
४१६
सूत्रार्थमुक्तावलिः
चौर इति मन्यमानश्च व्यापादयेत्स च हतो भवेत्तदा दृष्टिविपर्यासप्रत्ययिकं कर्मावाप्नोति । एषां पञ्चानां क्रियास्थानत्वेऽपि प्रायः परोपघातो भवतीति कृत्वा दण्डसमादानसंज्ञा विज्ञेया । षष्ठादिषु बाहुल्येन न परव्यापादनं भवतीत्यतः क्रियास्थानसंज्ञोच्यते । यः कश्चित् स्वपक्षाभिनिवेशात् स्वस्य परस्य वा कृते सद्भूतार्थनिह्नवं चौरमपि नाहं मदीयो वा कश्चिच्चोरे इति, तथाऽसद्भूतोद्भावनं परमचौरं चौर इति मृषावादं वदत्यन्येन कथयति वदतश्च समनुजानीते स मृषावादप्रत्ययिकं कर्मार्जयति । यः कश्चित्स्वपरनिमित्तमदत्तं परद्रव्यं गृह्णीयाद्ग्राहयेत् समनुजानीयात्तदा तस्य स्तेयप्रत्ययिकं कर्म सम्बद्ध्यते । यो हि चिन्तो - त्प्रेक्षाप्रधानः परेणानुद्भावितदुःखोऽपि दुष्टचित्ततया स्वयमेव चिन्ताशोकसागरप्रविष्टोऽहर्निशं करतलविन्यस्तमुख आर्त्तध्यानोपगतोऽपगतसद्विवेको निर्निमित्तमेव द्वन्द्वोपहतवद्ध्याय क्रोधमानमायालोभप्रयुक्तत्वात् स आध्यात्मिकप्रत्ययकर्मभाक् । यश्च जात्यादिगुणोपेतो जातिकुलबलरूपतप:श्रुतलाभैश्वर्यप्रज्ञामदाख्यैरष्टभिर्मदस्थानैरन्यतरेण वा मत्तः परं जघन्योऽयं जातिकुलादिभिरित्येवं निन्दति, आत्मानं च समुत्कर्षयति स इहापि गर्हितोऽपरत्र गर्भादर्भ गर्भादगर्भमगर्भाद्गर्भमगर्भादगर्भं तीव्रतरं नरकान्तरं परिव्रजति, तथाविधस्य च मानप्रत्ययिकं कर्म सम्बद्ध्यते । यः प्रभुकल्पो मातापितृसुहृदादिभिर्वसन् तेषामन्यतमेनानाभोगतया यथाकथञ्चिद्वाचिके कायिके वाऽपराधे कृते महाक्रोधाध्मातस्तस्मै गुरुतरं दण्डं पातयति, यथा प्रभूते शीते शिशिरादावुदके तं पातयति ग्रीष्मे च प्रभूतोष्णजलादौ, वेत्रादिना ताडनेन चर्माणि लुम्पयति, तापयति सन्तप्तशलाकादिना तदेवमल्पेऽप्यपराधे महादण्डप्रदातेहपरत्र चाहितो मित्रदोषप्रत्ययिकं कर्म समाचिनोति । यो गूढचारी मायाशीलः परेषां नानाविधैरुपायैर्विश्रम्भमुत्पाद्य पश्चाद्गलकर्त्तनग्रन्थिच्छेदादिभिरपकरोति, तथा लघीयानप्यात्मानं गुरुं मन्यते, आर्यदेशोत्पन्नोऽप्यात्मप्रच्छादनार्थमपरेषां भयोत्पादनार्थञ्चानार्यभाषा: प्रयुङ्क्ते परव्यामोहनार्थमपराविदितादिभिः स्वयं कल्पिताभिर्भाषते, असाधुमात्मानं साधु मन्यते, अन्यत् पृष्टोऽन्यदाचष्टे, न च मायया यत्कृतमकार्यं तदन्यस्मै कथयति, नाप्यात्मानं निन्दति, न वाऽऽलोचनार्हायात्मानं निवेद्य तदकार्याकरणतथाऽभ्युत्तिष्ठते, न वा गुर्वादिभिरभिहितं प्रायश्चित्तमभ्युपगच्छति स इह लोकेऽविश्वास्यो भवति जन्मान्तरावाप्तौ च सर्वाधमेषु यातनास्थानेषु नरकतिर्यगादिषु भूयो भूयः प्रत्यागच्छति, तदेवमस्य मायाप्रत्ययिकं कर्मानुषज्ज्यते । ये पाषण्डिनो वयं प्रव्रजिता इति त्यक्तगृहवासाः कन्दमूलफलाहारा वृक्षमूलादौ निवसन्ति सर्वसावद्येभ्योऽनिवृत्ता द्रव्यतः कतिपयव्रतवर्त्तिनोऽपि सम्यग्दर्शनाभावादविरता