________________
सूत्रकृतांग
४१५
પ્રવૃત્ત ભિક્ષુ સારી રીતે હાજર થયેલા અથવા ગેરહાજર રહેલા સાધુ સાંભળવા માટે આવ્યા હોય ત્યારે શિષ્યોને પોતાના કે બીજાના હિત માટે શિક્ષા આપે. નહિ કે આહાર પાણી માટે કે ભોગનિમિત્તે, શાંતિપ્રધાન ધર્મ પ્રાણાતિપાતવિરમણરૂપ, રાગ, દ્વેષ બનાવ નિમિત્તે ઇન્દ્રિયનો ઇન્દ્રિય એટલે મનના ઉપશમ માટે સમસ્ત દ્વન્દ્વ એટલે બન્નેના ઉપશમ માટે, સર્વ ઉપાધિથી વિશુદ્ધતારૂપ ભાવશૌચરૂપ, ભારેકર્મી આત્માના કર્મદૂર થવાથી હળુકર્મી અવસ્થા ઉત્પન્ન કરવારૂપ ધર્મની ભાવના કરે. આવા પ્રકારના ગુણવાલા સાધુની પાસે ધર્મ સારી રીતે સાંભળી, સારી રીતે ઉત્થાન કરવા વડે ઉઠી, કર્મનો નાશ કરવા માટે (ને ફાડવા માટે) સહન કરવાની ઇચ્છાવાળો, સર્વ પાપ સ્થાનકોથી અટકેલો, બધી રીતે ઉપશાંત થયેલો, કષાયોને જીતનારો સમસ્ત કર્મોનો ક્ષય री सिद्ध थाय III
अथ त्रयोदशभिः क्रियास्थानैः कर्मबन्धसद्भावात्कर्मबन्धं प्रतिपादयितुमाह
अर्थानर्थहिंसाऽकस्माद्द्वष्टिविपर्यासमृषावादस्तेयाऽऽध्यात्मिकमानमित्रदोषमायालोभेर्यादण्डभेदादधर्मस्थानानि कर्मबन्धकानि ॥ ६१ ॥
अर्थेति द्वे स्थाने संक्षेपेण क्रियावतां भवतः, धर्मस्थानमधर्मस्थानञ्चेति, उपशान्तं यत्तद्धर्मस्थानमनुपशान्तञ्चाधर्मस्थानम्, उपशमप्रधाने धर्मस्थाने केचन महासत्त्वाः समासन्नोत्तरोत्तरशुभोदया वर्त्तन्ते, अल्पसत्त्वा विपर्यस्तमतयः संसाराभिष्वङ्गिणोऽधोऽधोगतयो वर्त्तन्तेऽधर्मप्रधाने स्थाने । अधर्मे स्थाने च वर्त्तमानानां नारकदेवमनुष्यतिरश्चां सातासातवेदनानुभविनां पापोपादानभूतानीमानि त्रयोदश क्रियास्थानानि भवन्ति । तत्र कश्चित् प्राण्यात्मार्थं स्वजनगृहपरिवारमित्राद्यर्थञ्च त्रसस्थावरेषु स्वपरोपघातलक्षणं दण्डं पातयत्यन्येनापि प्राण्युपमर्दनक्रियां कारयति कुर्वन्तमनुजानाति, एतत्प्रत्ययिकं यत्कर्म बध्यते तदर्थदण्डप्रत्ययिकमुच्यते । यत्किञ्चित्कारणमन्तरेणैव त्रसाणां वनस्पत्यादिस्थावराणां प्राणिनां स्वभावतः क्रीडया व्यसनादिना वा प्राणव्यपरोपणं योगत्रिकेण कृतकारितानुमतिभिश्च विधत्ते तस्यानर्थदण्डप्रत्ययिकः कर्मबन्धः । यो मामयं घातयिष्यति मदीयान् पितृपुत्रादीनन्यान् वेत्येवं मत्वा पौरुषेण परान्मनुजादीन् सर्पसिंहादीन् वा व्यापादयति कृतकारितानुमतिभिः, स हिंसादण्डप्रत्ययिकं कर्म बध्नाति । यो ह्यारण्यपशुभिर्वर्त्तनशीलः क्व मृगान् द्रक्ष्यामि हननायेति मृगाध्यवसायी तदर्थं कच्छादिषु भ्रमन् तत्र मृगानवलोक्यान्यतरस्य वधार्थं समाकृष्य शरं निसृजति, तेन यद्यन्य एव पक्ष्यादिम्रियेत तदाऽन्योद्देशेन निक्षिप्तेनान्यस्य मरणादकस्माद्दण्डभाग् भवति । यो मातृपितृभार्याभगिनीपुत्रादिभिर्वसन् तत्पालनकृते मित्रमेव दृष्टिविपर्यासादमित्रोऽयमिति मन्यमानो ग्रामघातादिविभ्रमे पौरुषमुद्वहन् भ्रान्तचेता अचौरमेव