________________
सूत्रकृतांग ।
३९५
तस्यैव गुणान्तरमाहशास्त्रवेत्ता विभज्यवादी भाषाविधिज्ञश्च ॥४९॥
शास्त्रेति, सविनयं गुरुकुलवासी साधुराचार्याधुपदिष्टं सम्यग्दर्शनादिमोक्षमार्ग हृदये सुव्यवस्थाप्य तत्र सुस्थितोऽप्रमादी हेयोपादेयं सम्यक् परिज्ञायोत्पन्नप्रतिभः सिद्धान्तस्य श्रोतृणां यथावत् प्रतिपादको भवति, ग्रहणासेवनारूपया द्विविधयापि शिक्षया शिक्षितत्वात्, तथा स एव स्वपरशक्तिं पर्षदं प्रतिपाद्यमर्थं च सम्यक् परिज्ञाय धर्मं प्रतिपादयितुं क्षमः, बहुश्रुतत्वात् प्रतिभावत्त्वादर्थविशारदत्वात् स्वतो धर्मे सुस्थितत्वाच्च, एवंविधः कालत्रयवेत्ता जन्मान्तरसञ्चितानां कर्मणामन्तकृद्भवति, अन्येषाञ्च कर्मापनयनसमर्थो भवति, कोऽयं पुरुषः कस्य चार्थस्य ग्रहणसमर्थोऽहञ्च किम्भूतार्थप्रतिपादनशक्त इति सम्यक् परीक्ष्य व्याकरणात्, परेण पृष्टस्यार्थस्य सम्यगुत्तरप्रदानसामर्थ्याच्च, तथाऽहं समस्तशास्त्रवेत्ता समस्तसंशयापनेता न मत्तुल्यो हेतुयुक्तिभिरर्थप्रतिपादयितेत्येवमभिमानं न सेवेत नापि बहुश्रुतत्वेन तपस्वित्वेन वा स्वात्मानं प्रकाशयेत्, शास्त्रार्थं नापसिद्धान्तेन व्याख्यानयेत् लाभपूजादि नेच्छेत् पूजासत्कारादिकं क्वचिदवाप्याप्यनुन्मादी व्याख्यानावसरे धर्मकथावसरे वाऽनाविलोऽकषायी साधुरर्वाग्दर्शित्वादर्थनिर्णयं प्रत्यशङ्कितभावोऽप्यौद्धत्यं परिहरन् विषममर्थं प्ररूपयन् साशङ्कमेव कथयेत्, परिस्फुटमप्यशङ्कितभावमप्यर्थं न तथा कथयेयेन परः शङ्केत, अपि तु विभज्यवादी पृथगर्थं निर्णयवाद व्यागृणीयात्, स्याद्वादं सर्वत्रास्खलितं लोकव्यवहाराविसंवादितया सर्वव्यापिनं स्वानुभवसिद्धं वदेत्, नित्यवादं द्रव्यार्थतया पर्यायार्थया त्वनित्यवादं वदेत्, स्वद्रव्यक्षेत्रकालभावैः सर्वेऽपि पदार्थाः सन्ति परद्रव्यादिभिस्तु न सन्तीत्येवं विभज्यवादं वदेत्, तदपि वादं सत्यासत्यामृषाभ्यां भावाभ्यां भाषेत, तेन कथितञ्चार्थं कश्चिन्मेधावितथा तथैव सम्यगवगच्छति, अपरस्तु मन्दमेधावितयाऽन्यथैव यद्यभिजानीयात् तं यथाऽसाववबुद्ध्येत तथा हेतूदाहरणसधुक्तिप्रकटनमुखेन कर्कशादिवचनमब्रुवन् सम्यग्बोधयेत्, स्तोककालीनं व्याख्यानं व्याकरणतर्कादिप्रवेशनद्वारेण प्रसक्तानुप्रसक्त्या न दीर्घकालिकं कुर्यात्, यत्त्वतिविषमत्वादल्पाक्षरैर्न सम्यगवबुध्यते तत् पर्यायशब्दोच्चारणतो भावार्थकथनतश्च श्रोतारमपेक्ष्य सद्धेतुयुक्त्यादिभिरस्खलितामिलिताहीनाक्षरार्थवादी भाषेत, न त्वल्पैरेवाक्षरैरुक्त्वा कृतार्थो भवेत् । एवं परस्पराविरुद्धं निरवद्यं वचनमभियुञ्जीत, उत्सर्गविषये सत्युत्सर्गमपवादविषयेऽपवादं स्वपरसमययोश्च यथास्वं वचनमभिवदेत्, तीर्थकरगणधराद्युक्तं ग्रहणशिक्षया सम्यग् गृह्णीयात्, आसेवनाशिक्षया