________________
सूत्रकृतांग
३९१
તો સ્વધર્મને સ્થાપવાની ઈચ્છાથી અન્યતીર્થિકોનો તિરસ્કાર પ્રાયઃ વચન સાંભળી પોતાના દર્શનનો આગ્રહી થયેલો તીર્થિક તેના વચનને નહીં સ્વીકારતો અતિ કડવાશને ભાવતો - ધારતો તુચ્છતાને પામેલો વિરૂપ (ખરાબ)ને પણ કરે, જેમ સ્કંદકાચાર્યનું પાલક પુરોહિતની જેમ તથા પ્રશંસા, પૂજા, સત્કાર વગેરેથી નિરપેક્ષ, સભાને અનુરૂપ ગુણવાળો ત્રણ સ્થાવર જીવોને હિતકારી ધર્મને પ્રગટ કરે, પણ શ્રોતાને પ્રિય રાજકથા, વિકથા વગેરે છલિત કથા વગેરે તેને આશ્રયી દેવતા વિશેષ નિંદા વગેરેને કહે નહીં. આ પ્રમાણે તે યથાતથ્ય વિચારતો સંકલ જીવો ઉપર વિરમેલ દંડવાળો ®वन-भ२५॥नी अपेक्षा वनो संयमानुठानने पाणे. ॥४६||
अथ सम्यक् चारित्रस्य पूर्वोदितस्य बाह्याभ्यन्तरग्रन्थपरित्यागादवदाततेत्याहगुरुकुलवासी सुसाधुक्रियः ॥४७॥
गुर्विति, धनधान्यहिरण्यादिग्रन्थमुत्सृज्य प्रव्रजितः शिक्षाग्राही साधुः ग्रहणलक्षणामासेवनालक्षणाञ्च शिक्षामासेवमान आचार्यान्तिके यावज्जीवं वसमानो यावदभ्युद्यतविहारं न प्रतिपद्यते तावत्सदाऽऽज्ञाविधायी ग्रहणासेवनाभ्यां विनयं सम्यक् परिपालयेत्, न तु संयमानुष्ठाने सदाचार्योपदेशे च प्रमादं कुर्यात्, यथा ह्यातुरः सद्वैद्योपदेशं कुर्वन् श्लाघां लभते रोगोपशमञ्च तथा साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषजस्थानभूतान्याचार्यवचनानि विदधदपरसाधुभ्यः साधुकारमशेषकर्मक्षयञ्चावाप्नोति । यस्त्वाचार्योपदेशमन्तरेण स्वच्छन्दतया गच्छान्निर्गत्यैकाकि विहारितां प्रतिपद्यते उ च बहुदोषभाग् भवति, यतो ह्यसौ न सूत्रार्थनिष्पन्नो न वा गीतार्थो नापि सम्यक् परिणतधर्मपरमार्थः, तथाभूतञ्चानेके पापधर्माण: पाषण्डिकाः प्रतारयन्ति गच्छादहिः कारयन्ति । विषयोन्मुखतापादिनमपगतपरलोकभयं तं निस्सारं मन्यमानाः कुतीथिकाः स्वजना राजादयो वा हरन्ति, तत्र पाषण्डिका नास्ति युष्मदर्शनेऽग्निप्रज्वालनविषापहारशिखाच्छेदादिकाः प्रत्यया अणिमाद्यष्टगुणमैश्वर्यम्, न वा युष्मदर्शनमनेकराजाश्रितम्, अहिंसापि दुःसाध्या, लोकस्य जीवव्याप्तत्वात्, नापि भवतां स्नानादिकं शौचमस्तीत्येवं तं प्रतारयन्ति । स्वजनाश्च भवन्तं विना नास्माकं कश्चित् पोषक: पोष्यो वाऽस्ति, त्वमेवास्माकं सर्वस्वम्, त्वया विना सर्वं शून्यमाभातीत्येवं धर्माच्च्यावयन्ति, एवं राजादयोऽपि । तस्मादेकाकित्वे बहुदोषसम्भवात् कृतप्रतिज्ञानिहाय सुरोरन्तिके तिष्ठेत्, तत्रस्थो भगवदनुष्ठानं सदनुष्ठानतोऽवभासयेत् तदन्तिके निवसन् विषयकषायाभ्यामात्मानं हियमाणं ज्ञात्वा क्षिप्रमेवाचार्योपदेशात् स्वत एव वा निवर्त्तयति, स्थानशयनासनगमनादौ तपश्चरणादौ ये समाचारास्तैः समायुक्तो भवति, सुसाधुर्हि यत्र कायोत्सर्गादिकं विधत्ते तत्र सम्यक् प्रत्युपेक्षणादिकां क्रियां करोति कायोत्सर्गञ्च मेरुरिव निष्प्रकम्पः शरीरनिःस्पृहो विधत्ते, शयनञ्च कुर्वन् प्रत्युपेक्ष्य