________________
३८४
सूत्रार्थमुक्तावलिः
પણ અભાવ હોવાથી માયા સ્વપ્ન ઇંદ્રજાલ સમાન આ જગત છે. એ પ્રમાણે સ્વીકારનો અસંભવ હોવાથી, સ્વપ્ન પણ જાગ્રત અવસ્થા હોવાથી થશે. તેનો અભાવ થયે છતે તે પણ ક્યાંથી (કેવી રીતે) થશે. આ પ્રમાણે ઈન્દ્રજાલની વ્યવસ્થા પણ અપરસત્યપણું હોયે છતે થાય છે. બીજી રીતે નહિ. વળી સર્વ શૂન્યપણું પણ વસ્તુ જ નથી. કેમકે અભાવ એ તુચ્છ વસ્તુ છે. સસલાના શીંગડાની જેમ અત્યંત અભાવરૂપે પ્રસિદ્ધ સંબંધનો જ નિષેધ છે. નહીં કે વસ્તુનો આત્યંતિક અભાવ. તેથી વિદ્યમાનતામાં, અસ્તિત્વાદિકમાં, ક્રિયામાં નિરૂદ્ધ થયેલું બુદ્ધિવાળા તીર્થિકો खडियावाहनो खाश्रय ४२ ॥४३॥
अनिरुद्धप्रज्ञाश्च यथावस्थितार्थवेदिनो भवन्ति, त्रैलोक्यवर्त्तिनश्च पदार्थानवध्यादिभिः करतलामलकन्यायेन पश्यन्ति श्रुतज्ञानिनोऽपि श्रुतबलेनातीतानागतान् जानते, अष्टङ्गनिमित्तपारगा निमित्तेनेति स्थिते तत्र व्यभिचारमाशङ्कय निराकरोति
श्रुतमपि व्यभिचारीति चेन्न, क्षयोपशमादिवैकल्यात् ॥४४॥
श्रुतमपीति, अपिशब्दो भिन्नक्रमः श्रुतं व्यभिचार्यपि भवति, आगमे चतुर्दशपूर्वविदामपि षट्स्थानपतितत्व श्रवणात्, यदा च चतुर्दशपूर्वविदां षट्स्थानपतितत्वं तदाऽष्टाङ्गनिमित्तशास्त्रविदां किमु वक्तव्यम्, अत्रेदं बोध्यमङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छन्दसाऽर्धत्रयोदशशतानि सूत्रम्, तावन्त्येव सहस्राणि वृत्ति:, तावल्लक्षप्रमाणा परिभाषेति, अङ्गस्य त्वर्धत्रयोदशसहस्राणि सूत्रम्, तावत्परिमाणलक्षा वृत्तिः, अपरीमितं वार्त्तिकमिति । एतद्वेदिनामपि षट्स्थानपतितत्वेन व्यभिचारित्वम्, तत्र केषाञ्चिन्निमित्तानामुत्पातशकुनादीनां जीवितमरणादिफलजनकानां तददर्शनतो व्यभिचारात् । तत्रोत्तरमाचष्टे क्षयोपशमादिवैकल्यादिति, निमित्तानां केषाञ्चिदन्यथात्वं मत्वा श्रुतस्य व्यभिचारशङ्कया तत्परित्यागो भ्रान्तिमूल एव, निमित्तस्य हि कस्यचित् फलव्यभिचारित्वदर्शनं निमित्तवेदिनां तथाविधक्षयोपशमाभावेनान्यथापरिज्ञानात्, तथाविधसामग्र्यन्तरवैकल्याद्वा । तथा श्रुतमपि सम्यग्गृहीतं नार्थाविसंवादि, षट्स्थानपतितत्वञ्च पुरुषाश्रितक्षयोपशमवशेन, न हि प्रमाणाभासव्यभिचारे प्रमाणस्य व्यभिचारशङ्का युक्ता, अन्यथा मरुमरीचिकाजलग्राहिप्रत्यक्षस्य व्यभिचारित्वेन सत्यजलग्राहिप्रत्यक्षस्यापि व्यभिचारिता स्यात् I तथा च सुविवेचितकार्यस्य कारणाव्यभिचारितया प्रमातुरेवायमपराधो न प्रमाणस्यातो निमित्तश्रुतमपि न व्यभिचारि । क्वचित्क्षुतादौ कार्यसिद्धिदर्शनन्तु मध्येऽन्यशुभनिमित्तबलात्, शोभननिमित्तदर्शनानन्तरमपि क्वचित्कार्यासिद्धिरपान्तरालेऽशुभनिमित्तान्तरत एवेति ॥४४॥