________________
३७८
सूत्रार्थमुक्तावलिः पदार्थपरिच्छेदासम्भवेन सर्वज्ञाभावादसर्वज्ञस्य यथावस्थितवस्तुस्वरूपापरिच्छेदात् सर्ववादिनां परस्परविरोधेन पदार्थस्वरूपस्याभ्युपगमाद्यथोत्तरपरिज्ञानिनां प्रमादवतां बहुतरदोषसम्भवादज्ञानमेव श्रेयः, अज्ञानवांश्च कथञ्चित् पादेन शिरसि यदि हन्यात्तदापि चित्तशुद्धेर्न तथाविधदोषानुषङ्गीति । मतमिदं दूषयति नेति, असर्वज्ञप्रणीतागमाभ्युपगमवादिनामेव परस्परविरुद्धार्थवादित्वेनायथार्थवादित्वं भवेत्, सर्वज्ञप्रणीतागमाभ्युपगमवादिनान्तु नास्ति कोऽपि परस्परतो विरोधः, सर्वज्ञत्वान्यथानुपपत्तेः । सर्वज्ञो ह्यनृतकारणरागद्वेषरहित: प्रक्षीणाशेषमोहकर्मत्वात्, अतस्तद्वाक्यं कथमयथार्थं भवेत् तत्प्रणीतागमवतां च कथं विरोधवादित्वम् । न च सर्वज्ञ एव नास्तीति वक्तव्यम्, प्रत्यक्षतस्तस्यानुपलम्भेऽपि सम्भवानुमानस्य सद्भावात्तद्बाधकप्रमाणाभावाच्च तत्सिद्धेः, प्रत्यक्षतोऽनुपलम्भस्तु परचेतोवृत्तीनां दुरन्वयत्वात्, सरागाणां वीतरागवद्वीतरागाणामपि सरागवच्चेष्टमानत्वात् । सम्भवानुमानं तु ज्ञेयावगमं प्रति प्रज्ञाया व्याकरणादिशास्त्राभ्यासेन संस्क्रियमाणाया अतिशयो दृष्टः, सोऽयमतिशयस्तारतम्येनोपलभ्यमानः क्वचिद्विश्रान्तो वाच्यो महत्परिमाणतारतम्यस्य गगनादाविव, एवञ्च कश्चित्तथाभूताभ्यासवशात्प्रज्ञायाः प्रकृष्टतारतम्यवानपि स्यात्, स च सर्वज्ञ एवेति, नास्ति च सर्वज्ञाभावसाधकं किञ्चित् प्रमाणम्, न हि प्रत्यक्षतस्तत्सिद्धिः, अर्वाग्दर्शिनां तज्ज्ञानज्ञेयविज्ञानशून्यत्वात्, अशून्यत्वे च सर्वज्ञत्वापत्तेः । नाप्यनुमानेन, तदव्यभिचारिहेत्वभावात्, न चोपमानेन, तादृग्विधसादृश्याभावात् । न वाऽर्थापत्त्या, तस्याः प्रत्यक्षादिपूर्वकप्रवृत्तिमत्तया तदभावेऽप्रवृत्तेः । नाप्यागमेन, तस्य सर्वज्ञसाधकत्वेनापि दर्शनात् । नापि प्रमाणपञ्चकाभावरूपाभावप्रमाणेन, सर्वत्र सर्वदा तद्ग्राहकप्रमाणं न सम्भवतीत्यग्दिर्शिनो निश्चयासम्भवात्, सम्भवे वा तस्यैव सर्वज्ञत्वापत्तेः, न वाऽर्वाग्दर्शिनां ज्ञानं निवर्तमानं तदभावसाधनक्षमम्, तस्याव्यापकत्वात्, व्यापकव्यावृत्त्यैव पदार्थव्यावृत्तेः । ज्ञानं ज्ञेयस्य स्वरूपं न परिच्छिनत्तीत्यभिधानमपि न सम्यक्, सर्वज्ञज्ञानेन देशकालस्वभावव्यवहितानामपि ग्रहणात्, व्यवधानासम्भवात्, अर्वाग्दर्शिज्ञानस्याप्यवयवद्वारेणावयविनि प्रवृत्त्या व्यवधानाभावात्, न ह्यवयवी स्वावयवैर्व्यवधीयते । अज्ञानमेव श्रेय इत्यपि न युक्तम्, तस्य पर्युदासरूपत्वे ज्ञानान्तररूपतया नाज्ञानवादसिद्धिः । प्रसज्यरूपत्वे ज्ञानाभावस्य नीरूपतया तुच्छत्वात्सर्वसामर्थ्यविकलतया श्रेयस्त्वासम्भवात्, तस्मान्नेते धर्मोपदेशनिपुणाः सदा मृषावादिनोऽपारसंसारसमुद्रपर्यटनशीला इति ॥४१॥
અજ્ઞાનવાદિઓના મતને જણાવી પછી તેનું નિરાકરણ કરે છે.