________________
३१८
सूत्रार्थमुक्तावलिः भवोत्तरं संकलनाप्रत्ययोऽनुभूयमानो न स्यात्, स्वविषयादन्यत्रेन्द्रियाणामप्रवृत्तेरालयविज्ञानेन तदभ्युपगमे तस्य चाक्षणिकत्वे आत्मैव संज्ञान्तरेणाभ्युपगतः स्यात्, क्षणिकत्वे च तद्दोषतादवस्थ्यम् । अथ क्षणिकत्वसाधननिराकरणायाह सर्वथानित्यत्वासिद्धेश्चेति, क्रमयोगपद्याभ्यां नित्यस्यार्थक्रियाकारित्वं न घटत इति यदुक्तं तत्क्षणिकपक्षेऽपि समानमेव, क्रमेण यौगपद्येन वाऽर्थक्रियायां प्रवर्त्तमानस्य तस्याप्यवश्यं सहकारिकारणसव्यपेक्षस्यैव प्रवृत्तेः, अन्यथा सामग्या एव जनकत्वाभिधानमपार्थकं भवेत्, एवञ्च सहकारिणा न क्षणिके कश्चिदतिशयः कर्तुं पार्यते, क्षणस्याविवेकित्वेनानाधेयातिशयत्वात्, क्षणानां परस्परोपकार्योपकारकत्वानुपपत्त्या सहकारित्वाभावान्न प्रतिविशिष्ट कार्योपपत्तिः । अनित्यस्य कारणेभ्य उत्पत्त्यङ्गीकारेऽपि तत्किमनित्यत्वं क्षणक्षयित्वेन परिणामानित्यतया वा, आद्ये क्षणिकत्वे कार्यकारणभावासम्भवः, न च पूर्वक्षणादुत्तरक्षणोत्पादे सति स भवतीति वाच्यम्, कार्यकालेऽसतो जनकत्वानुपपत्तेः, सत्त्वे च क्षणिकत्वानुपपत्तेः, किञ्च प्रथमक्षण एव यदि विनाशस्वभावत्वं तर्हि तदैव तस्य विनाशाद्वितीयक्षण इव प्रथमक्षणेऽपि स न स्यादिति किं कस्य कारणं कार्यं वा, द्वितीयक्षण एव विनाशाङ्गीकार उत्पत्तिकालेऽभवतः पश्चाच्च भवतोऽनन्तरक्षण एव तद्भावे किञ्चिन्नियामकं वाच्यम्, विनाशहेत्वभाव एव नियामक इति चेन्न, मुद्गरादिव्यापारानन्तरमेव घटादिविनाशदर्शनात् । न च तत्रोक्तो दोष इति वक्तव्यम्, पर्युदासपक्षे कपालाख्यभावान्तरकरणे घटादेः परिणामानित्यतया तद्रुप्त्वात्तत्र मुद्गरादेापारतया घटादीन् प्रति तस्याकिञ्चित्करत्वासिद्धेः । प्रसज्यप्रतिक्षेधपक्षेऽपि भावं न करोतीति प्रध्वंसाभावप्राप्त्या तत्र च कारकव्यापारप्रवृत्तेः, न हि सोऽभावमात्रं किन्तु वस्तुतोऽवस्थाविशेषः पर्यायः, तस्य च भावरूपत्वात् पूर्वोपमर्दैन प्रवृत्तत्वाच्च य एव कपालादेरुत्पादः स एव घटादेविनाश इति कथं विनाशस्याहेतुकत्वम्, तदेवं क्षणिकस्यासम्भवात् परिणामानित्यपक्ष एव ज्यायान्, एवञ्च परिणामी ज्ञानाधारो भवान्तरयायी भूतेभ्यः कथञ्चिदन्य आत्मा स्वीकार्य इति ॥९॥
હવે બૌદ્ધમતનું નિકારણ કરે છે.
સૂત્રાર્થ : પાંચસ્કંધો જ આત્મા છે. બીજા પ્રમાણ નહીં કારણ કે કરેલા કાર્યની હાની થતી હોવાથી, સર્વથા અનિત્યપણાની સિદ્ધિ ન થતી હોવાથી.
टीअर्थ : २५, वेहना, विशान, संज्ञा, सं२७१२ २७५न भेद पड़े में पांय ४ ॐो छ. ते આત્મા રૂપે છે, એના સિવાય બીજો કોઈ આત્મા નથી. એમાં પૃથ્વી ધાતુ વગેરે રુપ સ્કંધો છે. સુખ-દુઃખ, અદુખ સુખ એ પ્રમાણે વેદના સ્કંધ, પવિજ્ઞાન, રસવિજ્ઞાન વગેરે વિજ્ઞાન તે વિજ્ઞાન