________________
सूत्रकृतांग
३१७
सहकारिणा तम्य कश्चिदतिशयः क्रियते न वा, प्रथमपक्षेऽपि पूर्वस्वभावपरित्यागेन, अपरित्यागेन वा, आद्ये स्वभावपरित्यागात्क्षणिकत्वं स्यात्, द्वितीये च सहकार्यपेक्षावैयर्थ्यम्, ततस्तत्रातिशयाभावात् । अकिञ्चित्कार्यपि सहकार्यपेक्ष्यत इति चेन्न, सकलजगतोऽपेक्ष्यत्वप्रसङ्गादविशेषात् । एकार्थक्रियाकालेऽपरार्थक्रियाकारिस्वभावत्वानभ्युपगमेऽपि तस्याक्षणिकत्वं कथं स्यात् । यदि च युगपदर्थक्रियाकारित्वं तस्य स्वभाव इति पक्षोऽङ्गीक्रियते तदा प्रथमक्षण एव सर्वासामर्थक्रियाणां भावाद्वितीयक्षणादावकर्तृतया क्षणिकत्वं तथापि स्यात्, कृतस्य च करणासम्भवात् पुनद्वितीयादिक्षणेषु ता एवाशेषाः क्रियाः करोतीति वक्तुमशक्यत्वात्, द्वितीयादिक्षणभाविकार्याणां प्रथमक्षण एव प्राप्तेश्च, तस्य तत्स्वभावत्वादतत्स्वभावत्वे चानित्यत्वापत्तेः, तस्मान्न स्वकारणेभ्योऽक्षणिकस्योत्पत्तिः किन्तु क्षणमात्रस्थायिन एव । ननु स्वकारणेभ्योऽनित्यस्यैवोत्पत्तिर्न तु द्वितीयक्षणविनाशिस्वभावस्य, तस्य च विनाशो यदा विनाशहेतुसमवधानं तदा, न तु द्वितीयक्षण एवेति चेन्न, विनाशहेत्वसम्भवात्, विनाशहेतुना हि घटादेः किं क्रियते, अभाव इति चेत्स किं पर्युदासरूपः प्रसज्यरूपो वा, आद्ये च भावाद्भावान्तरं घटाभावः स्यात्, तथा च मुद्गरादिना भावान्तरे क्रियमाणेऽपि घटस्तदवस्थ एव स्यात्, तेन तस्य किमप्यकरणात् । द्वितीये च विनाशहेतुरभावं करोतीत्युक्तेर्भावं न करोतीति क्रियाप्रतिषेध एव प्राप्तः, न तु घटस्य निवृत्तिः, तामपि करोतीति चेन्न निवृत्तेर्नीरूपत्वेन तुच्छत्वात्तत्र कारकव्यापारासम्भवात्, अन्यथा शशशृङ्गादावपि कारकव्यापारः स्यादिति विनाशहेतोरकिञ्चित्करत्वात् स्वहेतुत एव विनाशस्वभावानां भावानामुदय इति क्षणिकत्वं भावानामिति । एतेभ्यः पञ्चस्कन्धेभ्यो न व्यतिरिक्तः कश्चिदात्मा प्रमाणसिद्धः प्रत्यक्षस्य नीरूपेऽप्रवृत्तेः, अव्याभिचारिलिङ्गग्रहणाभावेनानुमानस्याप्यप्रवृत्तेश्च, नच प्रत्यक्षानुमानाभ्यां व्यतिरिक्तमर्थाविसंवादिप्रमाणान्तरमस्तीति बौद्धाः । तन्मतं निरसितुमाह नेति, पञ्चस्कन्धव्यतिरिक्तस्यात्मनोऽभावे स्वसंविदितस्य सुखदुःखानुभवस्यानुभविता वाच्यः, न तावज्ज्ञानस्कन्धस्यायमनुभवः, तस्य क्षणिकत्वेनातिसूक्ष्मतया सुखाद्यनुभवासम्भवात् क्रियाफलवतोः क्षणयोः परस्परमत्यन्तासम्बन्धात्कृतनाशा कृताभ्यागमप्रसङ्गाच्च, न च सन्तानापेक्षया नायं दोष इति वाच्यम्, सन्तानिभिन्नस्याक्षणिकस्य तस्याप्यसम्भवात् । न च पूर्वो क्षण उत्तरक्षणे वासनामाधाय विनङ्ख्यतीति वाच्यम्, यतः क्षणेभ्यस्सा यदि व्यतिरिक्ता न तर्हि तेषां वासकत्वम्, यद्यव्यतिरिक्ता तदा च क्षणिकत्वमेवेत्यात्माभावे सुखदुःखानुभवाभावप्रसङ्गः इति तदनुभवान्यथानुपपत्त्याऽस्त्यात्मा, एवं रूपादिपञ्चविषयानु