________________
३०६
सूत्रार्थमुक्तावलिः तस्मात्स्वजनादयो वित्तादयश्च सर्वं संसारान्तर्गतं यत्किञ्चिदपि शारीरमानसवेदनाक्रान्तस्य जीवस्य परिरक्षणाय समर्थमिति ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याख्याय संयमानुष्ठानलक्षणक्रियया तद्बन्धनमपनयेत् । विज्ञाय संयमेनापनयेदित्युक्त्या ज्ञानक्रियाभ्यामेव निःश्रेयसाधिगमो न ज्ञानमात्रात्क्रियामात्राद्वेति सूचितम्, तत्र ज्ञानं स्वपरावभासनरूपम्, क्रिया स्वरूपरमणरूपा, तत्र चारित्रवीर्यगुणैकत्वपरिणतिः क्रिया सा साघिका, तत्र जीवोऽनादिसंसारेऽशुद्धकायिक्यादिक्रियाव्यापारनिष्पन्नः परिभ्रमति, स एव विशुद्धसमितिगुप्त्यादिविनयवैयावृत्त्यादिसत्क्रियाकरणेन निवर्त्तते, अत: संसारक्षपणाय संवरनिर्जरात्मिका क्रिया कर्तव्या, तथा द्रव्यभावभेदेन ज्ञानं द्विविधम्, एवं क्रियापि, भावनारहितं वचनव्यापारमनोविकल्परूपं संवेदनज्ञानं द्रव्यज्ञानम्, तच्च भावज्ञानतत्त्वानुभवनलक्षणोपयोगस्य कारणम् योगव्यापारात्मिका द्रव्यक्रिया सापि स्वगुणानुयायिस्वगुणप्रवृत्तिरूपाया भावक्रियायाः कारणम् । ज्ञानस्य फलं विरतिस्तेन ज्ञानं विरतिकारणमतो ज्ञानपूर्विका क्रिया फलवतीत्येतत्सूचनाय विज्ञाय संयमेनेति पूर्वोत्तरकालनिर्देशः कृतः, न हि साधनप्रवृत्तिलक्षणक्रियारहितं ज्ञानं मोक्षलक्षणकार्यसाधकम्, गतिरहितपथज्ञवत्, आश्रयत्येव हि तत्त्वज्ञानी प्रथमसंवरकार्यरुचिर्देशसर्वविरमणलक्षणां क्रियाम्, चारित्रयुतोऽपि तत्त्वज्ञानी केवलज्ञानकार्यरुचिः शुक्लध्यानारोहणरूपां क्रियाम्, केवलज्ञान्यपि सर्वसंवरपूर्णानन्दकार्यावसरे योगनिरोधरूपां क्रियाम् । बन्धनमपनयेदित्यनेन च दुःखसाधनकर्मध्वंस: पुरुषार्थत्वान्मोक्ष इति सूचितम्, न तु दुःखध्वंसः, उत्पन्नस्य दुःखस्य क्षणिकत्वेन स्वयमेव ध्वंसादनुत्पन्नस्यानुत्पन्नत्वादेव तद्ध्वंसस्य चासाध्यत्वात्, सन्तानोच्छेदो मोक्ष इत्यपि निरस्तम्, तैः विनाशस्य निर्हेतुकत्वस्वीकारेण तदुपायोपदेशवैयर्थ्यात् । चैतन्यमात्रेऽवस्थानलक्षणा मुक्तिरपि न युक्ता, प्रकृत्याद्यसिद्धेः, तत्साधनतयाऽभीष्टप्रकृतिपुरुषविवेकासम्भवात् । आत्मविशेषगुणानामत्यन्तोच्छेदो मुक्तिरित्यपि न युक्तम्, कस्याप्यत्यन्तोच्छेदासम्भवात्, कथञ्चिदेवोच्छेदादिति ॥३॥
પ્રથમ અધ્યયન સ્વપર સિદ્ધાંત નિરૂપણાત્મક કહેવાથી પહેલા પોતાના સિદ્ધાંતનું નિરૂપણ ४२ छे.
સૂત્રાર્થ : પરિગ્રહ બંધનરૂપી જાણી તેને સંયમ વડે દૂર કરે.
ટીકાર્થઃ જીવપ્રદેશો સાથે એકમેક પરસ્પર રૂપે બંધાઇને રહેલા જે છે તે બંધન, જ્ઞાનાવરણીય વિગેરે આઠ પ્રકારના કર્મો, તેના હેતુઓ, મિથ્યાત્વ, અવિરતિ વગેરે અથવા પરિગ્રહ આરંભ વગેરે પરિગ્રહ રૂપ બંધનને પરિગ્રહ બંધન કહ્યું છે. પરિગ્રહને ગ્રહણ કરીને બીજા પાસે ગ્રહણ કરાવવો. ગ્રહણ કરતાં બીજાને અનુજ્ઞા આપી આઠ પ્રકારના કર્મો અને તેના ફળોના વિપાક રૂપ