________________
अनुयोगद्वार
ત્યાં પહેલા દ્વારને બતાવવા માત્રથી અનુયોગના સ્વરૂપનું વર્ણન કરતા અર્થથી પણ કેટલાક દારોને સંગ્રહિત કરે છે.
ननूपक्रान्तोऽनुयोगो हि द्वादशद्वारसंमिश्रः, द्वाराणि च निक्षेपैकार्थनिरुक्तिविधिप्रवृत्तिकर्तृविषयद्वारभेदलक्षणपरिषत्सूत्रार्थरूपाणि, तत्र प्रथमं द्वारप्रदर्शनमुखेनानुयोगस्वरूपं वर्णयन्नर्थतोऽपि कतिचन द्वाराणि सङ्ग्रह्णाति--
उपक्रमनिक्षेपानुगमनयैरनुयोगः ॥४॥
उपक्रमेति, उपक्रमादयो वक्ष्यमाणस्वरूपाः द्वादशविधद्वारान्तर्गतद्वाररूपास्तैरनुयोगः, सूत्रस्य स्वकीयेनाभिधेयेनानुयोजनं सूत्रस्य निजार्थविषये संयोज्य प्रतिपादनलक्षणव्यापारो वा । अर्थापेक्षया सूत्रमणु लघु सूत्रस्य बह्वर्थत्वात् । अणुना सूत्रेण सहार्थस्य योगोऽनुयोगोऽथवा प्रथममर्थं चेतसि व्यवस्थाप्य पश्चात्सूत्रस्य भावादनु पश्चाद्भाविना सूत्रेणार्थस्य योगोऽनुयोग इति निरुक्तिरनुयोगस्य । ननु सूत्रस्य कथमणुत्वं पश्चाद्भावित्वञ्च तथार्थस्य महत्त्वम्, न हि बहुवस्त्राद्याधारभूता पेटिका तदपेक्षयाऽणुभूता भवितुमर्हति, न वा सूत्राभावेऽर्थस्य प्रकाशः, लोकेऽपि प्रथमं सूत्रं ततो वृत्तिस्ततो वातिकं वा भाष्यं वेति क्रमो दृश्यते, न चार्थो महान् एकस्यैवाऽर्थस्य क्वचिद्बहुभिस्सूत्रैर्वर्णनादिति चेन्न, पेटिकान्तर्गतैकवस्त्रादेवानेकासां पेटिकानां बन्धदर्शनेन पेटिकास्थानीयस्य सूत्रस्य वस्त्रस्थानीयादर्थादणुत्वात्, अर्हद्भाषितस्यैवार्थस्य गणधरैस्सूत्रणात्सूत्रस्य पश्चाद्भावित्वम्, लौकिका अपि हि शास्तारः प्रथमतोऽर्थं दृष्ट्वा सूत्रं कुर्वन्ति, अर्थ विना सूत्रस्यानिष्पत्ते । सकलस्यापि श्रुतस्येत्यनेन विषयद्वारोऽप्युक्त एव । व्याख्यानार्थकेनानुयोगशब्देनार्थ-भाषणरूपस्य पर्यायशब्दस्य लाभोऽवसेयः । व्याख्यायामत्यन्तोपयोगित्वेन च द्वारस्य तद्घटितमेव सूत्रमादृतम् । तत्रापि यथा ह्यकृतद्वारं कृतैकादिद्वारं वा नगरमनधिगमनीयं दुरधिगमञ्च भवति निर्गमप्रवेशादावसुकरत्वात्, चतुरं तु सुखाघिगमं कार्याविनाशकञ्च सम्पद्यते तथैवार्थाधिगमोपायद्वारशून्यमशक्याधिगमं प्रकृतविषयं स्यात्, एकादिद्वारानुगतमपि दुरधिगमं भवेत् सपरिकरचतुरानुगतन्तु सुखाधिगमं भवतीति द्वारचतुष्टयघटितमेव लक्षणं स्वीकृतम् । तथाऽनु पश्चात् संहितापदपदार्थपदविग्रहपूर्वकं प्रश्नानां योगः समाधानमनुयोग इति व्युत्पत्त्याश्रयेण लक्षणमपि प्रकटीकृतं तथा च पूर्वसूत्रे विषयोऽत्र चैकार्थनिरुक्तिद्वारलक्षणानि प्रदर्शितानि ॥४॥
(645म-निक्षेप-अनुगम-नयो 43 अनुयोग...
કહેવાતા સ્વરૂપવાળા એવા ઉપક્રમ વિગેરે બાર પ્રકારના દ્વારની અંતર્ગત દ્વાર સ્વરૂપ છે અને તેઓ વડે અનુયોગ થાય છે.