________________
अथ सूत्रकृतमुक्तासरिका अथ निखिलकर्मोच्छेदप्रयोजकार्हदुपदेशलक्षणद्वादशाङ्गादिरूपागमस्य पूज्यार्यरक्षितसूरैरनुग्रहबुद्ध्य चरणकरणद्रव्यधर्मकथागणितानुयोगभेदेन चतुर्धा व्यवस्थापिततया चरणकरणप्राधान्येन व्यावणितस्याचाराङ्गस्य सारं पूर्वं वर्णयित्वा द्रव्यप्राधान्येन व्याख्यातस्य सूत्रकृताङ्गस्य समासेनैव सारमभिधातुमाह
હવે સમસ્ત કર્મોના ઉચ્છેદના કારણરૂપ અરિહંતોના ઉપદેશરૂપ બાર અંગો આદિરૂપ આગમોને પૂજ્ય આર્યરક્ષિતસૂરિજી મહારાજે ઉપકાર કરવાની બુદ્ધિથી ચરણકરણાનુયોગ, દ્રવ્યાનુયોગ, ધર્મકથાનુયોગ, ગણિતાનુયોગ રૂપ ચાર પ્રકારે વ્યવસ્થાપિત કર્યો એમાં ચરણકરણની પ્રધાનતાના કારણે વર્ણવેલા આચારાંગના રહસ્યને પહેલા વર્ણવી દ્રવ્યની પ્રધાનતાના વર્ણનરૂપ સૂયગડાંગના (રહસ્યસારને) સંક્ષેપમાં કહેવા માટે કહે છે
अथ सूत्रकृताङ्गस्य सारः ॥१॥
अथेति, आचारसारव्यावर्णनानन्तरमित्यर्थः, उच्यत इति शेषः, सूत्रकृताङ्गस्य सारमभिधातुं प्रक्रमत इति -भावः, सूत्रानुसारेण तत्त्वावबोधः क्रियतेऽस्मिन्निति सूत्रकृतं तच्च तदङ्गञ्चेति शब्दव्युत्पत्तिः, गुणनिष्पन्नमिदं नाम । सूत्रनिक्षेपश्चतुर्धा नामस्थापनाद्रव्यभावभेदात्, नामस्थापने स्पष्टे, द्रव्यसूत्रञ्च वनीफलजकार्पासिकमण्डजवालजादिकं सूत्रम्, भावसूत्रं श्रुतज्ञानं स्वपरार्थसूचकत्वात्, इदं श्रुतज्ञानसूत्रं संज्ञासूत्रं सङ्ग्रहसूत्रं वृत्तनिबद्धं जातिनिबद्धं चेति चतुर्विधम् स्वसंकेतपूर्वकं निबद्धं संज्ञासूत्रं यथा यश्छेकः स सागारिकं न सेवेतेत्याद्यलौकिकं, लोकेऽपि पुद्गलः संस्कारः क्षेत्रज्ञ इत्यादि । प्रभूतार्थसङ्ग्राहकं सङ्ग्रहसूत्रम्, यथा द्रव्यमित्युच्यमाने समस्तधर्माधर्मादिसङ्ग्रहः तथोत्पादव्ययध्रौव्यं सदित्यादि । नानाविधवृत्तजातिनिबद्धं वृत्तनिबद्धं यथा बुद्धिजत्ति तिउट्टिज्जेत्यादि, जातिनिबद्धन्तु चतुर्धा, उत्तराध्ययनज्ञाताधर्मकथादिकं कथनीयमेकम् पूर्वर्षिचरितकथानकप्रायत्वात्तस्य । गद्यं ब्रह्मचर्याध्ययनादि, पद्यं छन्दोनिबद्धम्, गेयं स्वरसञ्चारेण गीतिकाप्रायनिबद्धम्, यथा कापालीयमध्ययनम् ॥१॥
सूत्रार्थ : वे सूत्रतinनो सार (२७२५) ४ छ.