________________
२१७
आचारांगसूत्र વગર, સાચા તત્ત્વને જાણ્યા વિના, પોતાના કુલની ખાનદાનીને એક બાજુ કરીને, ફક્ત કોઈના વચન માત્રથી પણ કોપથી પરાભવ પામેલો સુખની ઈચ્છાવાળો આપત્તિની અવગણના કરીને સાધુએ ગચ્છથી જુદું નીકળવું ન જોઈએ એવો ભાવાર્થ છે. ll૩૯
गुर्वादिना कार्यार्थं क्वचित्प्रेषितोऽपि सद्वर्तनः स्यादित्याहगुरुप्रेषितोऽपि क्रियासूपयुक्तोऽप्रमादी स्यात् ॥ ४० ॥
गुरुप्रेषित इति, सदा गुरुकुलवासी गुर्वभिप्रायानुवर्तनशील: क्वचित्कार्यादौ गुरुभिः प्रेषितो गच्छन् हस्तपादादिसङ्कोचनतो निखिलाशुभव्यापाराद्विनिवर्तमानोऽवयवांस्तन्निक्षेपस्थानानि च रजोहरणादिना परिमृजेत्, उपविशन्नपि भूम्यामेकमूरुं व्यवस्थाप्य द्वितीयमुत्क्षिप्य तिष्ठेत्, निश्चलस्थानासहिष्णुत्वे च भूमिं प्रत्युपेक्ष्य प्रमाय॑ च सङ्कोचनप्रसारणे विदध्यात्, स्वपन्नपि मयूरवच्छयीत, अपरप्राणिभयात् सचेतन एकपार्श्वशायी भवेत्, एवं सर्वाः क्रियाः परिवर्तनादिकाः सम्प्रेक्षणपरिमार्जनपुरस्सराः कुर्यात्तदेवं सोपयोगं क्रियामाचरतः कदाचित् सम्पातिमादयः प्राणिनः कायसंस्पर्शमुपगता विमुक्तप्राणा यदि भवेयुस्तदाऽनाकुट्टिकया कृतत्वादैहिकभवक्षपणाहँ कर्म बध्नाति, कर्मबन्धं प्रति वैचित्र्यात्, शैलेश्यवस्थायां हि मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकषायाभावात्सामयिकः, अप्रमत्तयतेर्जघन्यतोऽन्तमुहूर्तमुत्कृष्टतश्चान्तःकोटीकोटिस्थितिरिति, प्रमत्तस्य त्वनाकुट्टिकयाऽनुपेत्य प्रवृत्तस्य क्वचित्पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यतः कर्मबन्धः स च तेनैव भवेन क्षिप्यते, उत्कृष्टतश्च प्राक्तन एव विशेषिततरः, आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्दैन विहितं परिज्ञया परिज्ञाय दशविधप्रायश्चित्तान्यतरेण तत्कर्म परिहरेन्न तु प्रमाद्येत, स एव चाप्रमत्तः प्रमादविपाकस्यातीतानागतवर्तमानकर्मविपाकस्य वा द्रष्टत्वात्, उपशान्तकषायत्वात् समितत्वाच्च, अयमेवम्भूताऽप्रमत्तो गुरुसमीपवासी प्रमादजकर्मणोऽन्तं विधत्ते स्त्र्यादिपरीषहप्रसङ्गेऽपि सम्यग्दृष्टित्वाकार्याकरणप्रवृत्तत्वादिपर्यालोचनया निष्प्रकम्पो भवति, आहारहान्या कायोत्सर्गादिना विषयेच्छानिवृत्ति करोतीति ॥ ४० ॥
ગુરૂ આદિ વડે કોઈક કાર્યને માટે એકલો મોકલ્યો હોય તો પણ વર્તન સારું રાખવું તે જણાવતાં કહે છે.
સૂત્રાર્થ - ગુરૂએ મોકલેલ પણ ક્રિયામાં ઉપયોગી અને અપ્રમાદી થાય.