________________
आचारांगसूत्र
२१५
(ત્યાગ કરે.) ખરેખર ભાવયુદ્ધને યોગ્ય શરીરને મેળવીને કોઈક મરૂદેવી માતાની જેમ તેના વડે જ (તે જ.) ભવ વડે બાકીના કર્મક્ષયને કરે છે. (તેજ ભવમાં કર્મક્ષય કરે છે.) કોઈક ભરતની જેમ સાત | આઠ ભવમાં કર્મ નાશ કરે છે. કોઈક અરિહંત પરમાત્માના શાસનની ભયંકર આશાતના કરનાર મનુષ્યની જેમ અર્ધપુદ્ગલપરાવર્ત વડે (કાળે) મોક્ષે જાય છે. વળી કર્મના ઉદયથી તેવા પ્રકારના શરીર અને ધર્મને મેળવીને પછી તેનાથી પતિત થયેલો ગર્ભ વિ. પીડાકારક સ્થાનોમાં વારંવાર જાય છે. આવા કારણોથી (તેથી) પાપના કારણોમાં પ્રવૃત્ત આત્માને કાબૂમાં રાખી નિર્મમત્વ અને નિર્વેદયુક્ત થવું જોઈએ. એ પ્રમાણેનો ભાવાર્થ છે. ૩૮
अथैकचरस्य मुनित्वाभावे कारणमाहअव्यक्तस्य नैकचर्या संयमात्मविराधनाप्रसङ्गात् ॥ ३९ ॥
अव्यक्तस्येति, अव्यक्तता हि श्रुतेन वयसा च, श्रुताव्यक्तता गच्छगतानां तन्निर्गतानाञ्च, तत्र गच्छगतः श्रुताव्यक्तोऽर्थतोऽनवगताचारप्रकल्पः, तन्निर्गतश्च नवमपूर्वतृतीयवस्तु येनानधिगतं सः । वयसा चाव्यक्तो गच्छगतानामाषोडशवर्षम्, तन्निर्गतानां तु त्रिंशतः प्राक्, एवञ्च यश्श्रुतवयोभ्यामव्यक्तस्तस्यैकचर्या न कल्पते, संयमात्मविराधनाप्रसङ्गात् । यश्च श्रुतेनाव्यक्तो वयसा च व्यक्तस्तस्याप्येकचर्या न कल्पते, अगीतार्थत्वेनोभयविराधनासद्भावात्, श्रुतेन व्यक्तस्य वयसा चाव्यक्तस्यापि नैकचर्या, बालतया सर्वपरिभवास्पदत्वात् । यत्सूभयव्यक्तः स सति कारणे प्रतिमामेकाकिविहारित्वमभ्युद्यतविहारं वा प्रतिपद्यते, कारणाभावेऽस्याप्येकचर्या नानुमता, तस्यां गुप्तीर्यादिविषयानेकदोषसम्भवात्, एकाकिन ईर्यापथशोधनप्रवृत्तस्य श्वाधुपयोगाभावात्तत्र चोपयुक्तस्येर्यापथशोधनप्रवृत्त्यनुपपत्तेः, एवं समित्यादावपि भाव्यम्, तथाऽजीर्णवातादिव्याध्युत्पत्तौ संयमात्मविराधनायाः प्रवचनहीलनायाश्च प्रसङ्गः, तदा गृहस्थैः प्रतिजागरणे क्रियमाणेऽज्ञानतया षट्कायोपमर्दनसम्भवेन संयमबाधा, अन्यथाऽऽत्मविराधना, अतिसारादौ मूत्रपुरीषजम्बालान्ततित्वात् प्रवचनहीलना स्यात्, गच्छान्तर्वर्तने चोद्यतविहारी सीदन्तमपरं बालवृद्धादिकमप्युद्यमयति, यथोदके तरन् समर्थो विलग्नं काष्ठादिकमपि तारयति । तदेवं गच्छान्तर्वतिनोऽव्यक्तस्य बहवो गुणाः, अव्यक्तस्यैकचरस्य तु बहवो दोषा इति विभाव्याऽऽगमानुसारितया सदा गच्छान्तर्वर्ती भवेत्, न तु गच्छान्तर्वर्ती क्वचित्प्रमादस्खलिते चोदितः सदुपदेशमवगणय्य सद्धर्ममपर्यालोच्य कषायविपाककटुकतामविचार्य परमार्थमनवधार्य कुलपुत्रतां पृष्ठतः कृत्वा वाङ्मात्रादपि कोपनिनः सुखैष्यगणितापत्तिर्गच्छान्निर्गच्छेदिति ॥ ३९ ॥