SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्र १९१ कालसंख्येयभागेषु कियत्स्वपि गतेषु सत्सु भवति, निद्राप्रचलयोरप्युदयो दुरन्त एव, बन्धोपरमस्त्वपूर्वकरणकालसंख्येयभागान्ते भवति, क्षयश्च क्षीणकषायद्विचरमसमये, उदयस्तूपशमकोपशान्तमोहयोरपि भवतीत्यतो दुरन्तो निद्राप्रमादः । योऽज्ञानोदयाद्दर्शनमोहनीयमहानिद्रासुप्तः स महादुःखमनुभवति, अज्ञानं हि दुःखहेतुत्वाद्दुःखम्, अज्ञानञ्च मोहनीयं नरकादिभवव्यसनोपनिपातायेह च बन्धवधशारीरमानसपीडायै, अयञ्च भोगलिप्सुर्जीवोपमर्दादिकषायहेतुकं कर्मोपादाय नरकादियातना स्थानेषूत्पद्यते, ततः कथञ्चिदुत्थाय निखिलक्लेशोन्मूलनदक्षं धर्मकारणमार्यक्षेत्रादौ मनुष्यजन्म प्राप्य पुनरपि तत्तदारभते येन येनाधोऽधो व्रजति न संसारान्मुच्यते, यस्त्वमुं लोकाचारं ज्ञात्वा शस्त्रोपरतो धर्मजागरणेन जागृतश्शब्दादीन् कामगुणान् दुःखैकहेतून् ज्ञपरिज्ञया विदित्वा प्रत्याख्यानपरिज्ञया प्रत्याचष्टे सोऽयमात्मवेत्ता जन्मजरामरणशोकव्यसनोपनिपातात्मकसंसारलक्षणस्य भावावर्त्तस्य शब्दादिकामगुणविषयाभिलाषात्मकभावस्रोतसश्च कारणं रागद्वेषसङ्गं ज्ञात्वा परिहरति, तदेवं सुप्तजाग्रद्दोषगुणज्ञो बाह्याभ्यन्तरग्रन्थरहितश्शीतोष्णरूपौ परीषहावत्यन्तं सहमान: कर्मक्षपणायोद्यतस्य परीषहाणामुपसर्गाणां वा कठोरतां साहाय्यं मन्यमानस्तान् पीडाकारित्वेन न गृह्णाति । तत्र शीतोष्णयोर्नामस्थापनाद्रव्यभावभेदेन प्रत्येकं चतुर्धा निक्षेपः, ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यशीतं हिमतुषारकरकादिकम् द्रव्यप्राधान्याच्छीतकारणद्रव्यस्य शीतत्वोक्तिः । जीवाश्रितत्वपुद्गलाश्रितत्वाभ्यां भावशीतं द्वेधा, पुद्गलस्य शीतं गुणो भावशीतं पुद्गलाश्रितम्, गुणप्राधान्यविवक्षणात्, एवमुष्णमपि भाव्यम् । जीवस्य तु शीतोष्णरूपोऽनेकविधो गुणः, तद्यथा औदयिकादयष्षड्भावाः तत्रौदयिक उष्णः, कर्मोदयाविर्भूतनारकादिभवकषायजन्यत्वात्, औपशमिकश्शीतः, कर्मोपशमावाप्तसम्यक्त्वविरतिरूपत्वात्, क्षायिकोऽपि शीत एव, क्षायिकसम्यक्त्वचारित्रादिरूपत्वात् । अथवा स्त्रीसत्कारपरीषहौ शीतौ भावमनोऽनुकूलत्वात्, शेषास्तु विंशतिरुष्णा मनसः प्रतिकूलत्वात् तथा धर्मेऽर्थे वाऽनुद्यमः शीतलः, तपस्युद्यम उष्णमिति ब्रुवते, उपशान्तकषायः शीतो भवति, क्रोधादिपरितापोपशमात्, सप्तदशभेद: संयमश्शीतः, जीवानामभयकरणशीलत्वात्, एतद्विपरीतोऽसंयमं उष्णः, निर्वाणसुखं शीतं समस्तकर्मोपतापाभावात्, एतद्विपरीतं दुःखमुष्णमिति । तथा च यो मुनिः प्रमादरहितश्शब्दरूपादिविषयेषु रागद्वेषरहितो गुप्तात्मा शस्त्राशस्त्रवेदी तत्प्राप्तिपरिहारविधाय ज्ञानावरणीयादिकर्मणश्शस्त्रभूतस्य तपसोऽनुष्ठानकुशलत्वादशस्त्रभूतसंयमानुष्ठानकुशलस्तस्याश्रवनिरोधादनादिभवोपात्तकर्मणां क्षयो भवति, तथा चायं मतिश्रुतावधिमनःपर्यायवान्
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy