________________
आचारांगसूत्र
ઈચ્છાયુક્ત મુનિ હોય છે. ભોગની અપેક્ષાથી રહિત, પાંચ મહાવ્રતમાં આરૂઢ, આત્મસ્વરૂપનું સર્વપ્રકારે આવરણ કરતાં, કર્મનાશથી ઝળહળતું, સર્વ વસ્તુના સમૂહને પ્રકાશિત કરનારું, જ્ઞાન દેનારું, અનંત સુખના (ને સાધના માટે) કારણરૂપ સંયમ અનુષ્ઠાન માટે (ને વિષે.) જુગુપ્સા ન કરવી જોઈએ. અથવા અલાભ આદિ થાય તો ખેદ ન કરવો જોઈએ. આ મારું લાભાંતરાય કર્મ છે. આ અલાભથી કર્મક્ષય કરવામાં તત્પર મને તે કર્મ દૂર કરવામાં સમર્થ તપ થશે, આવું વિચારવું જોઈએ. અથવા તો જરૂરિયાત કરતાં ઓછું મેળવીને દાતાની નિંદા ન કરવી જોઈએ. અથવા તો પૂર્ણભિક્ષાદિ મળે તો જોરદાર બોલવાપૂર્વક (નાના-મોટા અવાજ વડે) સ્તુતિ-વખાણ नवा भेजे ॥२४॥
१८५
अथ परिहृतभोगाभिलाषो व्रती दीर्घसंयमयात्रार्थं शरीरपरिपोषणाय लोकनिश्रया विहरेत्, निराश्रयस्य देहसाधनलाभासम्भवात्, तदभावे च धर्मस्याप्यसम्भवादतो वृत्तिनियममाह
शस्त्रोपरतः कालज्ञो भिक्षुश्शुद्धमाहारादि गृह्णीयात् ॥ २५ ॥
शस्त्रोपरत इति, पूर्वोदितनानाशस्त्रकर्मसमारम्भरहित इत्यर्थः, एतेन पाकादि न स्वयं करोति न कारयति न वाऽन्यमादिशतीति सूचितम्, करणत्रयैः समारम्भनिवृत्तत्वात् अनवगतवस्तुयाथायैः सुखदुःखप्राप्तिपरिहाराय जीवोपमर्दकैर्द्रव्यादिभेदभिन्नैः शस्त्रैः कायिकाधिकरणिकादिरूपाः कृषिवाणिज्यादिरूपा वा किया: संरम्भसमारम्भारम्भलक्षणा अनुष्ठीयन्ते । तत्र संरम्भः इष्टानिष्टप्राप्तिपरिहाराय प्राणातिपातादिसङ्कल्पावेशः, तत्साधनसन्निपातकायवाग्व्यापारजनितपरितापनादिलक्षणः समारम्भः दण्डत्रयव्यापारापादितचिकीर्षितप्राणातिपातादिक्रियानिर्वृत्तिरारम्भः । कालज्ञ इति, सर्वाः प्रत्युपेक्षणादयः क्रियाः कर्त्तव्ये काले परस्पराबाधया करोति कर्त्तव्यावसरं वेत्ति विधत्ते चैवंविधः परमार्थदर्शी कालज्ञो भिक्षुर्धर्मोपकरणमपि करणत्रयैः क्रयविक्रयादिनाऽगृह्णानश्शुद्धमुद्गमादिदोषरहितमाहारादि गृह्णीयात्, शरीरपोषणार्थमभ्यवहरेत् तथा कालज्ञः - भिक्षार्थमुपसर्पणाद्यवसरवेदी काले समुपस्थितप्रश्नानामुत्तरदानकुशलः, यथा गोचरप्रदेशादौ पृष्टो भिक्षादोषान् सुखेनैवाचष्टे, एवं केनचित् किमिति भवतां सर्वजनाचीर्णं स्नानं न सम्मतमिति ग्रीष्ममध्याह्नतीव्रतरतरणिकरसंसर्गाद्गलत्स्वेदबिन्दुकः साधुः पृष्टो यतीनां सर्वेषां प्रायः कामाङ्गत्वाज्जन प्रतिषिद्धमित्याद्युत्तरं ददाति, तदेवं कालज्ञोऽकल्प्यं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च परिहृत्य निर्दुष्टमाहारं यावता गृहीतेन गृही पुनरारम्भे न प्रवर्त्तेत यावन्मात्रे चात्मनो विवक्षितकार्यनिष्पत्तिस्तावन्मात्रमेव गृह्णीयात्, न तु यावल्लाभं तावत्, लाभालाभयोश्च मदशोकौ न कुर्यात् । संयमोपकरणातिरिक्तञ्च वस्त्रपात्रादिकं न गृह्णीयात्, संयमोपकरणान्यपि