________________
आचारांगसूत्र
१७९
सम्भवः, सम्भवे वा नासौ विदिततत्त्व इति ज्ञानारत्योः शीतोष्णस्पर्शवत्सहानवस्थानलक्षणो विरोधः, अज्ञानी हि मोहाभिभूतमानसत्वाद्विषयाभिष्वङ्गतः संयमे रत्यभावं कुर्यान्न तु ज्ञानीति चेन्न, सम्प्राप्तचारित्रं प्रत्येवोपदेशात्, चारित्रावाप्तिश्च यद्यपि न ज्ञानं विना तथापि न ज्ञानारत्योर्विरोधोऽपि तु रत्यरत्योरेव, अरत्या संयमरतेरेव बाध्यमानत्वात्, तस्माज्ज्ञानिनोऽपि चारित्रमोहोदयात्संयमे स्यादेवारतिः, ज्ञानस्याज्ञानं प्रत्येव बाधकत्वात्, न तु संयमारति प्रति । संयमारतिनिवृत्तश्चाष्टप्रकारेभ्यः कर्मभ्यस्संसारबन्धनेभ्यो विषयाभिष्वङ्गस्नेहादिभ्यो वा मुक्तो भवति । अज्ञानं ज्ञानेनेति, न ज्ञानमज्ञानं सम्यग्ज्ञानादितरज्ज्ञानमनवबोधो वा, संशयविपर्ययादिरूपमिथ्याज्ञानं वा मिथ्यात्वसंवलितशास्त्रसंस्कारो वा, मोहनीयोदयात्तदापन्नाः केचिदवाप्तचारित्रा अपि परीषहोपसर्गः स्पृष्टाः कर्तव्याकर्तव्यज्ञानविधुरा निखिलद्वन्द्वप्रतिद्वन्द्वि संयमात् परावर्तन्ते मिथ्यात्वमोहनीयावृतत्वात् कण्डरीकादय इव । परे तु निजधिषणापरिकल्पितवृत्तयोऽनेकैरुपायैर्लोकादर्थं संजिघृक्षवो वयं संसारोद्विग्ना मुमुक्षवोऽपरिग्रहिणो यथार्थभाषिण इत्येवं ख्यापयन्तश्शाक्यादयो गैरिकचीवरादिकं प्रतिपद्य ततो लब्धान् कामानासेवन्ते, ते विषयाभिषक्ता मोहेऽज्ञानमदे निमग्नाः केनापि कारणेन परिहतनिकेतनकलत्रसुतसम्पद्विभवा अपरिग्रहत्वाहिंसकत्वादि प्रतिज्ञायापि कामोपायाद्यारम्भेषु वर्तन्ते, ते न गृहिणो नापि प्रव्रजिताः, निर्गतगृहवाससौख्यत्वात् यथोक्तसंयमाभावाच्च, किन्तूभयभ्रष्टा भवन्ति, तदेतदज्ञानं षड्विधजीवोपघातकारिशस्त्रं विषयकषायाद्यप्रशस्तमूलञ्च ज्ञपरिज्ञया सम्यग्विज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् । सर्वकषायेषु लोभस्य प्राधान्यादाहलोभमलोभेनेति, सर्वसङ्गानां हि लोभो दुस्त्यजः क्षपकश्रेण्यन्तर्गतस्यापगताशेषकषायस्यापि खण्डशः क्षिप्यमाणस्यापि तस्यानुबध्यमानत्वात्, अतः केनचिल्लोभादिना सहापि प्रव्रज्यामुपगतेन पुनर्लोभादिपरिग्रहो नैव कार्यः, अलोभेन लोभं निन्दन् सः प्राप्तानपि कामान्न सेवेत । लोभजयेन हि जीव: सन्तोषमुत्पादयति, लोभवेदनीयं कर्म न बघ्नाति, पूर्वनिबद्धञ्च कर्म निर्जरयति, तस्मादलोभेन लोभं निन्दन् प्राप्तानपि कामादीन्न सेवेत, यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवान्न भवति, यस्तु लोभे प्रवर्त्तते स कार्याकार्यविचारवैधुर्येणार्थंकदत्तदृष्टिः पापोपादानमास्थाय सर्वाः क्रिया ऐहिकामुष्मिकोपघातकारिणीः करोति, अलोभ न पश्यति जुगुप्सते च, लोभविपाकापर्यालोचनया च लोभमभिलषति, ततश्चाहोरात्रं परितप्यमानोऽर्थलोभी शस्त्रे प्रवर्त्तते, प्राप्नोति च जन्मजरामरणादिप्रपञ्चमतः सज्वलनसंज्ञकमपि लोभं विनीयाकर्मा भवेत्, लोभक्षये मोहनीयक्षये चावश्यं घातिकर्मक्षयान्निरावरणज्ञानसंभवेन भवोपग्राहिकर्मापगमादकर्मताप्राप्तेरिति ॥ २२ ॥