________________
१७२
सूत्रार्थमुक्तावलिः मोहनीयम्, कामोऽनङ्गरूपः, तद्गुणाः शब्दादयोऽपि कामपदवाच्याः, वेदोदयप्रयुक्तो हि कामो वेदश्च मोहनीयान्तर्गत एवेति मोहनीयं संसारस्यायं कारणम् । मोहनीयन्तु दर्शनचारित्रमोहनीयभेदेन द्विविधम्, अर्हत्सिद्धचैत्यतपः श्रुतगुरुसाधुसंघप्रत्यनीकतया दर्शनमोहनीयस्य कर्मणो बन्धः, येन जीवोऽनन्तसंसारसमुद्रान्तःपात्येवावतिष्ठते । तीव्रकषायबहुरागद्वेषमोहाभिभूतो देशसर्वविरत्युपघातकारिचारित्रमोहनीयं कर्म बध्नाति, दर्शनमोहनीयञ्च मिथ्यात्वमिश्रसम्यक्त्वभेदतस्त्रिविधम्, चारित्रमोहनीयन्तु षोडशकषायनवनोकषायभेदात् पञ्चविंशतिविधम् । तत्र कामाः शब्दादयः पञ्च चारित्रमोहः,त एवात्र विवक्षिताः, तेषां कषायस्थानत्वात्, संसारतरोहिं शारीरमानसोपचिततीव्रतरदुःखप्राप्तिफलस्य प्रियविप्रयोगाप्रियसम्प्रयोगार्थहानिनानाव्याधिकुसुमस्य दारिद्रयाद्यनेकव्यसनोपनिपातपत्रगहनस्य गर्भनिषेककललार्बुदमांसपेश्यादिजन्मजरामरणशाखस्य नरकतिर्यङ्नरामरगतिस्कन्धस्याष्टप्रकारं कर्म कारणम् तस्यापि च कर्मणः क्रोधादिकषाया मूलमिति भावः । अथ संसारस्य निक्षेपः व्यतिरिक्तद्रव्यसंसारो द्रव्यसंसृतिरूपः, क्षेत्रसंसारो द्रव्यसंचाराधारक्षेत्रम्, कालसंसारो द्रव्यसंसरणकालः, भवसंसारो नारकतिर्यङ्नरामरगतिचतुविधानुपूर्भुदयाद्भवान्तरसंक्रमणम्, भावसंसारस्तु औदयिकादिभावपरिणतिः संसृतिस्वभावा, नामस्थापनाद्रव्योत्पत्तिप्रत्ययादेशरसभावभेदेनाष्टधा कषायस्य निक्षेपः, नामस्थापने स्पष्टे, व्यतिरिक्तद्रव्यकषायाः कर्मद्रव्यनोकर्मद्रव्यकषायभेदेन द्विधाः,
आदित्सितात्तानुदीर्णोदीर्णाः पुद्गला द्रव्यप्राधान्यात् कर्मद्रव्यकषायाः, नोकर्मद्रव्यकषायास्तु बिभीतकादयः, शरीरोपधिक्षेत्रवास्तुस्थाण्वादयो येषामाश्रयेण कषायाणामुदयस्ते उत्पत्तिकषायाः, कषायाणां बन्धकारणभूता मनोज्ञेतरशब्दादयः प्रत्ययकषायाः, कृत्रिमकृतभृकुटीभङ्गादय आदेशकषायाः, रसकषायस्तु मधुराम्लकटुतिक्तकषायपञ्चकान्तर्गतः कषायः, भावकषायाः शरीरोपधिक्षेत्रवास्तुस्वजनप्रेष्यार्चादिनिमित्ताविर्भूताः शब्दादिकामगुणकार्यभूतकषायकर्मोदयादात्मपरिणामविशेषाः क्रोधमानमायालोभाः प्रत्येकमनन्तानुबन्ध्यादिभेदतः षोडशविधाः, विवेचिताश्चैते मत्कृततत्त्वन्यायविभाकरे । नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्मूलस्य षोढा निक्षेपः, उभयव्यतिरिक्तद्रव्यमूलञ्चौदयिकोपदेशादिमूलभेदेन त्रिविधम्, वृक्षादेर्मूलत्वेन परिणतद्रव्याणि औदयिकद्रव्यमूलानि, आतुराय चिकित्सकोपदिष्टं रोगविनाशनसमर्थं मूलं पिप्पलीमूलादिरूपमुपदेशद्रव्यमूलम्, वृक्षादिमूलोत्पत्तिप्रथमकारणं स्थावरनामगोत्रप्रकृतिप्रत्ययान्मूलनिर्वर्तनोत्तरप्रकृतिप्रत्ययाच्च यन्मूलमुत्पद्यते तदादिमूलम्, औदारिकशरीरत्वेन मूलनिवर्तकानामुदयिष्यतां पुद्गलानां कार्मणं शरीरमाद्यं कारणमिति यावत् । मूलोत्पत्तेस्तद्व्याख्याया