________________
१५०
सूत्रार्थमुक्तावलिः तदन्यव्यावृत्त्याऽवधार्यते वस्त्वनेनेति लक्षणम्, परिमाणमियत्तावर्णनम्, उपेत्य-अधिकमुपयुज्यमानतया भुज्यत इत्युपभोगः, शस्यते हिंस्यतेऽनेन प्राणिन इति शस्त्रं जीवोपघातकारि खड्गादिकम्, वेदनं वेदना, स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन चोदयभावमुपनीतस्यानुभवनम् । वधो हननं शिरश्छेदादीषिसमुद्भूता पीडा, निवृत्तिरारम्भनिवर्त्तनम्, एभिः पृथिवी विचार्यत इत्यर्थः, तथाहि निक्षेपस्तावन्नामस्थापनयोः प्रसिद्धत्वाद्रव्यपृथिवीं आगमनोआगमभेदतो विचार्या, आगमतो ज्ञाताऽनुपयुक्तः, पृथिवीपदार्थज्ञस्य जीवापेतं शरीरं नोआगमतो द्रव्यपृथिवी, तथा भाविपृथिवीपदार्थज्ञत्वेन भव्यो बालादिः, उभयव्यतिरिक्तश्च द्रव्यपृथिवीजीव एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, भावपृथिवीजीवस्तु य उदीर्ण पृथिवीनामादिकर्म वेदयति सः । प्ररूपणा-सूक्ष्मबादररूपेण पृथिवीजीवा द्विविधाः सूक्ष्मबादरनामकर्मोदयासादितस्वरूपा न त्वापेक्षिका बदरामलकयोरिव । समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत् सकललोकव्यापिनः सूक्ष्माः, प्रतिनियतदेशचारिणो बादराः श्लक्ष्णखरभेदेन द्विभेदाः चूर्णितलोष्टकल्पमृदुपृथिव्यात्मका जीवा उपचारात् श्लक्ष्णा तत्कायिका वा श्लक्ष्णपृथिवीकायिकाः, ते च कृष्णनीललोहितहारिद्रशुक्लमृत्तिकारूपाः पञ्चविधाः वर्णभेदाश्रयेण, देशविशेषे पाण्डुमत्तिकेति प्रसिद्धा या धूलीरूपा पृथिवी तदात्मकाः पङ्कापरपर्यायपनकमृत्तिकात्मकाश्च जीवा इति सप्तविधा अपि, काठिन्यविशेषमापन्ना पृथिवी खरा तदात्मकास्तत्कायिका वा जीवाः खरबादरपृथिवीकायिकाः, ते च शुद्धशर्करावालुकोपलशिलालवणादिभेदेन षट्त्रिंशद्भेदाः, सप्तयोनिलक्षणप्रमाणा पृथिवी भावनीया । लक्षणम्-उपयोगादीन्येतेषां लक्षणानि, तत्रोपयोगो ज्ञानदर्शनरूपोऽव्यक्तोपयोगशक्तिरूपः, स्त्यानयुदयात् । योगः
औदारिकतन्मिश्रकार्मणात्मकः कायलक्षण एक एव न मनोवचोरूपौ । अनभिलक्ष्याध्यवसाय:, अष्टविधकर्मोदयभाक्त्वं तद्वन्धभाक्त्वं कृष्णनीलकापोततेजोलेश्यानुगतत्वं दशविधसंज्ञावत्त्वं सूक्ष्मोच्छ्वासनिःश्वासानुगतत्वं सूक्ष्यकषायवत्त्वञ्च, एवंविधलक्षणैः पृथिव्याः सचित्तत्वं मनुष्यादिवत् । न चोपयोगादीनां पृथिवीकायेषु व्यक्ततयाऽप्रतीतेरुक्तलक्षणान्यसिद्धानि न साध्यसाधनसमर्थानीति वाच्यम्, चेतनाचिह्नस्य समानजातीयाश्मलतोद्भेदादेरुपलम्भतस्तत्राव्यक्तचेतनायाः सद्भावात्, मदिरातिपानमत्तस्य श्वासोच्छ्वासादिचेतनाचिह्नेनाव्यक्तचेतनासद्भाववत् । परिमाणम्-पृथिवीकायिका बादरपर्याप्ता बादरापर्याप्ताः, सूक्ष्मपर्याप्तास्सूक्ष्मापर्याप्ताश्चेति चतुर्विधाः, तत्र बादरपर्याप्तास्संवर्तितलोकप्रतरासंख्येयभागवर्तिप्रदेशराशिप्रमाणाः, शेषास्त्रयोऽपि प्रत्येकमसंख्येयलोकाकाशप्रदेशराशि प्रमाणा भवन्ति, ततो बादरापर्याप्ता