________________
१४२
सूत्रार्थमुक्तावलिः सुखसाधनं स्रक्चन्दनादिकमुपलभ्य तदुपादित्सुः प्रयतमानस्तदुपात्तवान् सोऽहं सुखी, येऽहं दुःखसाधनमहिकण्टकादिकमुपलभ्यापि न परिहृतवान् सोऽहं दुःखीत्यादिरूपम् । विरुद्ध्यते चैतदनेकाश्रितत्वे, चैत्रमैत्रसुखादिषु तदर्शनात्, शरीराणाञ्च प्रत्यहं परिणतिभेदेन भिन्नत्वात् । न च यथाऽहं गौरः स्थूलो हुस्य ओसं सोऽहमिदानी श्यामः कृशो दीर्घ इति शरीरगुणा अपि प्रतिसन्धीयन्त एवेति वाच्यम्, तस्य भ्रान्तत्वात् । प्रकृतमपि प्रतिसन्धानं भ्रान्तमिति चेन्न, स्मर्तुरभ्रान्तेः, अन्येन दृष्टस्यान्येन स्मरणासम्भवात्, अन्यथाऽतिप्रसङ्गात् । किञ्च ज्ञानस्य शरीरधर्मत्वे तत परैरपि प्रत्यक्षेण गृह्येत, ये हि प्रत्यक्षविषयाश्शरीरगुणास्ते स्वेनेव परैरपि गृह्यन्ते यथा रूपादयः, ज्ञानन्तु प्रत्यक्षमपि सन्न परप्रत्यक्षग्राह्यं तस्मान्न शरीरगुणः, ततोऽन्यस्य गुणेनैतेन भाव्यं स एवात्मा । किञ्चैवं भूतचैतन्यवादी प्रष्टव्यः पञ्चभूतात्मके शरीरे किं सर्वाणि चेतयन्ते किं वैकमिति, आद्ये सर्वेषां समत्वात् परस्परमसम्बन्धापत्तिः । द्वितीये त्वितरेण विनापि लोष्टादिपृथिव्यादेश्चैतन्यं स्यात् न हि तस्य चैतन्येऽन्यदपेक्षणीयमस्ति तथा च येयं शरीरगता पृथिवी सा न चेतयते पृथिवीत्वाल्लोष्टवदित्यनुमानम्, एवं जलादावपि, तत् कथं समुदायस्य चैतन्यं भवेत् । तथा व्यतिरेकबुद्धिरपि दृश्यते ममेदं शरीरं कृशमिति षष्ठ्याऽस्मदर्थस्य शरीरव्यतिरेकात्, शरीरस्य च परविषयेदङ्कारास्पदत्वात्, अभेदावगमस्य च संसर्गदोषवशेन भ्रान्त्याप्युपपत्तेः, पूर्वाभ्यस्तस्मृत्यनुबन्धेन च विना जातस्य हर्षभयशोक सम्प्रतिपत्त्यनुपपत्तेः । जातिस्मराश्च केचिदद्यत्वेऽपि देहान्तररहोवृत्तं वृत्तान्तं सम्बोधयन्त उपलभ्यन्त इत्युपलब्धिसिद्धः शरीरात्मनोर्भेदः । यद्यपि चानेन प्रकारेण शरीरात्मनोविस्पष्टो भेदो न सिद्ध्येत्तथापि तावदभेदोऽपि न विस्पष्टः किन्तु कथञ्चिद्भेदाभेद एवेति । एवं योऽहं रूपमद्राक्षं सोऽहं स्पृशामीति, योऽहमग्रहीषं सोऽहं स्मरामीतीन्द्रियाभावेऽपि प्रत्यभिज्ञानादेको ज्ञाता इन्द्रियादिव्यतिरिक्तः सिद्धः । हेयोपादेयपरिहारोपादानप्रवृत्त्या च परात्मसिद्धिः । एवं भगवत्प्रणीतागमेनैव विशिष्टसंज्ञानिषेधद्वारेणाहमित्यात्मोल्लेखिप्रत्यये न चात्मसिद्धिर्भाव्या, नान्यागमेन, तस्यानाप्तप्रणीतत्वेनाप्रामाण्यात् । एवमशीत्युत्तरशतभेदा क्रियावादाः चतुरशीतिविकल्पा अक्रियावादाः सप्तषष्टिभेदा अज्ञानिकवादा द्वात्रिंशद्भेदा वैनयिकवादाश्च निराकर्त्तव्या इति ॥ ६ ॥
શંકા - અહીં વિશેષ સંજ્ઞાનો નિષેધ કરાયો છે તે ત્યારે યોગ્ય ગણાશે, જયારે સામાન્ય સંજ્ઞાવાળો ધર્મી સિદ્ધાંતના માર્ગ ઉપર આરૂઢ થાય. તેમાં પ્રમાણ દેખાતું નથી. પ્રત્યક્ષ પણ જણાતું નથી. સ્વભાવથી અતિન્દ્રિયપણું હોવાથી દૂરપણાથી (સ્વાભાવિક રીતે દૂરપણાથી) આથી જ તે