________________
आचारांगसूत्र
१३७
દેશની પણ વિવક્ષા હોવાથી મૃત્સ્નસ્કંધની અપેક્ષાથી ભિન્નતા છે. આગમને આશ્રયીને સ્કંધ પદાર્થના જ્ઞાતા અને (તેના જ્ઞાનમાં) ઉપયોગવાળા તે ભાવસ્કંધ (કહેવાય) છે. નો આગમ આશ્રયીને તો પ્રસ્તુત આચારાંગના નવમા અધ્યયનની ચૂલિકાના અને સમુદાયનો પરસ્પર સંબંધ होवाथी के विशिष्ट परिणाम, तेना वडे उत्पन्न श्रुतस्ध ते लावस्घ छे से प्रभो ॥3॥
अथाद्यश्रुतस्कन्धाध्ययनान्याह
शस्त्रपरिज्ञालोकविजयशीतोष्णीयसम्यक्त्वलोकसारधूतमहापरिज्ञाविमोक्षोपधानश्रुतभेदाद्ब्रह्मचर्यश्रुतस्कन्धस्याद्यस्य नवाध्ययनानि ॥ ४ ॥
शस्त्रपरिज्ञेति, शस्यन्ते हिंस्यन्तेऽनेन प्राणिन इति शस्त्रं खड्गादि, तस्य जीवशंसनहेतोः परिज्ञा, ज्ञानपूर्वकं प्रत्याख्यानं यत्रोच्यते सा शस्त्रपरिज्ञा जीवास्तित्वर्ताद्धिसादिपरिहारप्रतिपादनपरा । शस्त्रनिक्षेपे व्यतिरिक्तं द्रव्यशस्त्रं खड्गाद्यग्निविषादिकम् । भावशस्त्रं दुष्प्रयुक्तमन्तःकरणं वाक्कायौ विरत्यभावश्च, जीवोपघातकारित्वात् । द्रव्यपरिज्ञा च ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञेति द्विविधा, उभयविधापि आगमनोआगमभेदद्वयवती, आगमतो ज्ञाताऽनुपयुक्तः । नोआगमतो ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तभेदलस्त्रिधा, उभयव्यतिरिक्ता ज्ञपरिज्ञा च यो यत्सचित्तादि द्रव्यं जानीते सा परिच्छेद्यद्रव्यप्राधान्याद्द्रव्यपरिज्ञा । उभयव्यतिरिक्तप्रत्याख्यानपरिज्ञापि देहोपकरणपरिज्ञानम्, उपकरणं रजोहरणादि, साधकतमत्वात् । भावपरिज्ञा द्विविधा ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा चेति, आगमतस्तु पूर्ववत्, नोआगमतो ज्ञपरिज्ञा ज्ञानक्रियारूपमिदमेवाध्ययनम् । प्रत्याख्यानपरिज्ञा च मनोवाक्कायकृतकारितानुमतिभेदात्मिका प्राणातिपातनिवृत्तिः । भावलोकस्य रागद्वेषलक्षणस्य विजयो निराकरणं यत्राभिधीयते स लोकविजयः, शब्दादिविषयलोकस्य वा विजयस्य प्रतिपादनपरः । शीतञ्चोष्णञ्च शीतोष्णे ते अधिकृत्य कृतमध्ययनं शीतोष्णीयं शीतोष्णादिस्पर्शजनितवेदनादिप्रतिपादकपरम् । तत्त्वार्थश्रद्धानरूपसम्यक्त्वदार्यप्रतिपादनपरमध्ययनं सम्यक्त्वम् । चतुर्दशरज्ज्वात्मकस्य लोकस्य सारः परमार्थस्तत्प्रतिपादकमध्ययनं लोकसारः । धूतं सङ्गानां त्यजनं तत्प्रतिपादक मध्ययनं धूतम् । महती प्रतिज्ञा अन्तःक्रियालक्षणा सम्यग्विधेया यत्र प्रतिपाद्यते तदध्ययनं महापरिज्ञा, अध्ययनमिदं सम्प्रति व्यवच्छिन्नमतो नोच्यते । विमोक्षः परित्यागोऽसमनोज्ञाकल्पिकादीनां तत्प्रतिपादकमध्ययनं विमोक्षः । उप मोक्षं प्रति सामीप्येन दधातीत्युपधानं महावीरासेवितस्योपधानस्य तपसः प्रतिपादकं श्रुतं ग्रन्थ उपधानश्रुतमेतेषां द्वन्द्वः, तान्येव भेदो विशेषस्तस्मादाद्यस्य प्रथम श्रुतस्कन्धस्याध्ययनानि नव भवन्ति, आद्यस्य पर्यायान्तरमाह