SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्र १३१ ऽत्रोदकादेनिम्नप्रदेशावस्थानम् । ज्ञानादिकस्तु भावागालो रागादिरहितात्मन्यवस्थानात् । आगत्य तस्मिन् कुर्वन्तीत्याकरः, उभयव्यतिरिक्तद्रव्याकरो रजताकरादिः, ज्ञानादिरेव भावाकरः, अत्र निर्जरादिरत्नानां लाभात् । आश्वसन्त्यस्मिन्नित्याश्वासः, उभयव्यतिरिक्तश्च यानपात्रद्वीपादिः, ज्ञानादिरेव भावाश्वासः । आदृश्यतेऽस्मिन्नित्यादर्शः, उभयव्यतिरिक्तद्रव्यादर्शश्च दर्पणादिः, ज्ञानादिश्च भावादर्शः । अज्यते व्यक्तीक्रियतेऽस्मिन्नित्यङ्गम्, शिरोबाह्वादिक मुभयव्यतिरिक्तद्रव्याकं भावाङ्गं ज्ञानादि । आचीर्णमासेवितमिदन्तु षोढा निक्षेप्यम्, उभयव्यतिरिक्तद्रव्याचीर्ण सिंहादेस्तृणादिपरिहारेण पिशितभक्षणम्, क्षेत्राचीर्णं बाह्लीकेषु सक्तवः कोकणेषु पेया, कालाचीर्णं सरसश्चन्दनपङ्कादिः, ज्ञानादिकमेव भावाचीर्णम् । आ जायन्तेऽस्यामित्याजातिः, उभयव्यतिरिक्तद्रव्याजातिर्मनुष्यादिजातिः, भावाजातिश्च ज्ञानादिनिदानभूतोऽयं ग्रन्थः । आमुच्यन्तेऽस्मिन्नित्यामोक्षणम्, उभयव्यतिरिक्तद्रव्यात्मकञ्च निगडादेर्मोक्षणम्, भावामोक्षस्तु कर्माष्टकोद्वेष्टनमशेषम्, एतत्साधकश्चायमेवाचार इति । तदेवं भावाचारस्य किञ्चिद्विशेषेणैकार्थप्रतिपादकत्वाच्छक्रपुरन्दरादिशब्दवत्पर्यायत्वं विज्ञेयम् । आचारोऽयं कदा भगवता विनिर्मित इत्यस्य निर्णयाय प्रवर्तनाविशेषो वाच्यः, स च तीर्थकराणां निखिलानां तीर्थप्रवर्तनादौ आचारार्थः प्रथमतया अभवत् भवति भविष्यति च, तत इतरेऽङ्गार्थाः, गणधरैरप्यनयैवाऽऽनुपूर्व्या स सूत्रतया ग्रथ्यते । अत्र मोक्षोपायभूतचरणकरणप्रतिपादनेन प्रवचनसारभूतत्वादितराङ्गाध्ययनयोग्यतापादकत्वाच्च । द्वादशाङ्गेष्वस्य प्रथमाङ्गत्वमित्यपरो विशेषो बोध्यः । तथाऽयमाचारो गणित्वकारणानां प्रधानं गणिस्थानम् अध्ययनादस्य क्षान्त्यादिरूपाणां चरणकरणात्मकानां वा श्रमणधर्माणां परिज्ञानादिति गणित्वं विशेषः । अस्याध्ययनतः पदतश्च परिमाणं क्रमेण नवब्रह्मचर्याभिधानाध्ययनात्मकत्वमष्टादशसहस्रपदात्मकत्वम् पदपरिमाणेन च चतुश्चूलिकात्मकद्वितीयश्रुतस्कन्धप्रक्षेपाबहुत्वं निशीथाख्यपञ्चमचूलिकाप्रक्षेपाबहुतरत्वमनन्तगमपर्यायात्मकतया बहुतमत्वञ्च बोध्यम् । उपक्रमान्तर्गत-समवतारश्चात्रेत्थम्-पञ्चचूलिकार्थो नवसु ब्रह्मचर्याध्ययनेषु तेषां पिण्डितार्थः शस्त्रपरिज्ञायां तदर्थः षट्स्वपि कायेषु षड्जीवनिकायार्थः पञ्चस्वपि व्रतेषु तानि च सर्वद्रव्येषु पर्यायाणाञ्चानन्तभागे समवतारः, प्रथमव्रतस्य षड्जीवनिकायाश्रितत्वाद्वितीयचरमव्रतयोः सर्वद्रव्याश्रितत्वात् शेषमहाव्रतानाञ्च तदेकदेशाश्रितत्वान्महाव्रतानां सर्वद्रव्येष्ववतारः, सर्वस्याः संयमस्थानश्रेणेः ज्ञानदर्शनचारित्रपर्यायैः परिपूर्णत्वेन सर्वाकाशानन्तगुणप्रमाणत्वेन व्रतानाञ्च चारित्रमात्रोपयोगित्वात् पर्यायानन्तभागवृत्तित्वमवसेयम् । कस्य कः सार इति चेदित्थम्
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy