________________
आओ संस्कृत सीखें
2103
7. गच्छतः स्खलनं क्वापि, भवत्येव प्रमादतः ।
हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः ।। 8. हत्वा गुरूनपि लघून्वञ्चयित्वा छलेन च ।
यदुपादीयते राज्यं, तत्प्राज्यमपि मास्तु मे ।। 9. प्रसीद विवरं देहि, स्फुटित्वा देवि ! काश्यपि !।
अभ्रादपि पतितानां, शरणं धरणी खलु ।। 10. यथा चिन्तामणिं दत्ते, बठरो बदरी-फलैः ।
ह हा जहाति सद्धर्मं तथैव जन-रजनैः ।। 11. ज्ञान-मग्नस्य यच्छर्म, तद्वक्तुं नैव शक्यते ।
नोपमेयं प्रियाश्लेषै र्नापि तच्चन्दन-द्रवैः ।। 12. दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गति भवति ।। 13. कोऽलङ्कारः सतां ! शीलं, न तु काञ्जन-निर्मितम् ।
किमादेयं प्रयत्नेन ? धर्मो, न तु धनादिकम् ।। 14. अजित्वा सार्णवामुर्वीमनिष्ट्वा वा विविधै मखैः ।
अदत्त्वा चार्थिभ्यो दानं, भवेयं पार्थिवः कथम् ।। 15. सद्यः क्रीडा-रसच्छेदं, प्राकृतोऽपि न मर्षयेत् ।
किं नु लोकाधिकं तेजो, बिभ्राणः पृथिवी-पतिः ।। 16. सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्य कारिणं, गुणलुब्धाः स्वयमेव सम्पदः ।। 17. उपानयन्ती कलहंसयूथमगस्ति-दृष्ट्या पुनती पयांसि ।
मुक्तासु शुभ्रं दधती च गर्ने शरद्विचित्रैश्चरितैश्चकास्ति ।। 18. वसने परिधूसरे वसाना नियम-क्षापमुखी धृतैकवेणिः ।
अतिनिष्करुणस्य शुद्ध-शीला मम दीर्घं विरहव्रतं बिभर्ति । 19. रामो हेम-मृगं न वेत्ति नहुषो याने न्ययुक्त द्विजान्,
विप्रस्याऽपि सवत्सधेनु-हरणे जाता मतिश्चार्जुने । द्यूते भ्रातृ-चतुष्टयं च महिषीं धर्मात्मजो दत्तवान्, प्रायः सत्पुरुषो विनाश-समये बुद्ध्या: परिभ्रश्यते ।।