________________
३-४२]
ध्वन्यालोकः
मुत्प्रेक्षादि ।
अथ किमिदं चित्रं नाम ? यत्र न प्रतीयमानार्थसंम्पर्शः । प्रतीयमानो ह्यर्थनिभदः प्राक्प्रदर्शितः । तत्र यत्र वस्त्वलङ्कारान्तरं वा व्यङ्ग्यं नाम्नि स नाम चित्रस्य कल्प्यतां विषयः । यत्र तु रमादीनामविषयत्वं म काव्यप्रकारो न सम्भवत्येव । यम्मादवस्तुमंम्पर्शिता काव्यस्य नोपपद्यते । वस्तु च मर्वमेव जगद्गतमवश्यं कस्यचिद्रमस्य भावस्य वा अङ्गत्वं प्रतिपद्यते. अन्ततो विभावत्वेन । चित्तवृत्तिविशेषा हि रमादयः. न च तदस्ति वस्तु किञ्चिद्यन्न चित्तवृत्तिविशेषमुपजनयति तदनुत्पादने वा कविविषयतैव तम्य न स्यात् कविविषयश्च चित्रतया कश्चिन्निरूप्यते ।
अत्रोच्यते – सत्यं न तादृक्काव्यप्रकारोऽम्ति यत्र रमादीनामप्रनीतिः । किं तु यदा रसभावादिविवक्षाशून्यः कविः शब्दालङ्कारमालङ्कारवोपनिबध्नाति तदा तद्विवक्षापेक्षया रसादिशून्यतार्थस्य परिकल्प्यते । विवक्षोपारूढ एव हि काव्ये शब्दानामर्थः । वाच्यमामर्थ्यवशेन च कविविवक्षाविरहेऽपि तथाविधे विषये रमादिप्रतीतिर्भवती परिदुबला भवतीत्यननापि प्रकारेण नीरमत्वं परिकल्प्य चित्रविषयो व्यवस्थाप्यने । नदिदमुक्तम
.. रसभावादिविषयविवक्षाविरह मति । अलङ्कारनिबन्धो यः म चित्रविषयो मतः ।। रमादिषु विवक्षा तु स्यात्तात्पर्यवती यदा ।। तदा नास्त्येव तत्काव्यं ध्वनेर्यत्तु न गोचरः ।। "
एतच्च चित्रं कवीनां विशृङ्खलगिरां रमादितात्पर्यमनपथ्येव काव्यप्रवृत्तिदर्शनादम्माभिः परिकल्पितम् । इदानीन्तनानां तु न्याय्य काव्यनयव्यवस्थापने क्रियमाणे नास्त्येव ध्वनिव्यतिरिक्त: काव्यप्रकार: । यतः
ध्व-७