________________
३-४०]
यथां
च
-
ध्वन्यालोकः
प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।
न किञ्चिदूचे चरणेन केवलं लिलेख वाष्पाकुललोचना भुवम् ॥
6
इत्यत्र · निर्वचनं जघान ', न किञ्चिदू' इति प्रतिषेधमुखेन व्यङ्गयस्यार्थस्योक्त्या किञ्चिद्विषयीकृतत्वाद्गुणीभाव एव शोभते । यदा वक्रोक्तिं विना व्यङ्गयोऽर्यस्तात्पर्येण प्रतीयते तदा तस्य प्राधान्यम् । यथा— एवं वादिनि देवर्षी ' इत्यादौं । इह पुनरुक्तिर्भङ्गन्यास्तीति वाच्यस्यापि प्राधान्यम् । तस्मान्नात्रानुरणनरूपव्यङ्गयध्वनिव्यपदेशो विधेयः ।
प्रकारोऽयं गुणीभूतव्यङ्गन्योऽपि ध्वनिरूपताम् । धत्ते रसादितात्पर्यपर्यालोचनया पुनः ॥ ४० ॥
"
निरेव सम्पद्यते । यथात्रैवानन्तरोदाहृते लोकद्वये ।
यथा च
गुणीभूतव्यङ्गयोऽपि काव्यप्रकारो रसभावादितात्पर्यालोचने पुनर्ध्व
९३
दुराराधा राधा सुभग यदनेनापि मृजतस्तवैतत्प्राणेशाजघनवसनेनाश्रु पतितम् ।
कठोरं स्त्रीचेतस्तदलमुपचारैर्विरम हे
क्रियात्कल्याणं वो हरिरनुनयेष्वेवमुदितः ।।
एवं स्थिते च ' न्यक्कारो ह्ययमेव इत्यादिश्लोकनिर्दिष्टानां पदानां व्यङ्गयविशिष्टवाच्यप्रतिपादनेऽप्येतद्वाक्यार्थीभूतरसापेक्षया व्यञ्जकत्वमुक्तम् । न तेषां पदानामर्थान्तरसंक्रमितवाच्यध्वनिभ्रमो विधातव्यः, विवक्षितवाच्यत्वात्तेषाम् । तेषु हि व्यङ्ग्यविशिष्टत्वं वाच्यस्य प्रतीयते न तु व्यङ्ग्यरूप