________________
२-२७]
ध्वन्यालोकः
उपमाध्वनिर्यथा---
वीराण रमइ घसिणारुणम्मि ण तहा पिआथपुच्छंगे । दिठ्ठी रिउगअकुम्भत्थलम्मि जह बहलसिंदूरे ।। [ वीराणां रमत धुणारुणे न तथा प्रियाम्तनोत्मने ।
दृष्टी रिपुगजकुम्भम्थले यथा बहलसिन्दूरे ।। छाया यथा वा ममैव विषमबाणलीलायामसुरपराक्रमणे कामदेवम्य
तं ताण सिरिमहोअररअणाहरणम्मि हिअअमक्करमम । बिम्बाहरे पिआणं णिवेमिअं कुसुमबाणेन ।। तत्तेषां श्रीमहोदररत्नाहरणे हृदयमेकरसम् ।
बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन || छाया ॥] आक्षेपध्वनिर्यथा
स वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान् । योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ।।
अत्रातिशयोक्त्या हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपस्यासाधारणतद्विशेषप्रकाशनपरस्याक्षेपस्य प्रकाशनम् ।
अर्थान्तरन्यासध्वनिः शब्दशक्तिमूलानुरणनरूपव्यङ्गयोऽर्थशक्तिम्लानुरणनरूपव्यङ्ग्यश्च सम्भवति । तत्राद्यस्योदाहरणम् --.
देवाअत्तम्मि फले किं कीरइ एत्तिअं पुणो भणिमो । कंकेल्लि-पल्लवा पल्लवाण अण्णाण ण सरिच्छा ।। ( देवायत्ते त फले किं क्रियतामेतावत्पुनर्भणामः ।
रक्ताशोकपल्लवाः पल्लबानामन्येषां न सदृशाः ।। च्छाया ]
पदप्रकाशश्चायं ध्वनिरिति वाक्यस्यार्थान्तरतात्पर्यऽपि सति न विरोधः । द्वितीयस्योदाहरणं यथा
हिअअट्टाविअमष्णु अवरुट्ठमुहि हि मं पसामन्त । अवरद्धस्स वि ण हु दे बहुजाणअ रोसिउं सक्कं ।। [ हृदयस्थापितमन्युमरुष्टमुखीमपि मां प्रसादयन् ।
अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुं शक्यम् ।। च्छाया ]