SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ध्वन्यालोकः वित्तीयोऽपि प्रभेदो वाच्याद्विभिन्नः सप्रपञ्चमग्रे दर्शयिप्यते । तृतीयस्तु रसादिलक्षणः प्रभेदो वाच्यसामर्थ्याक्षिप्तः प्रकाशते, न तु साक्षाच्छन्दव्यापारविषय इति वाच्याद्विभिन्न एव । तथा हि वाच्यत्वं तस्य स्वशब्दनिवेदितत्वेन वा स्यात् , विभावादिप्रतिपादनमुखेन वा । पूर्वम्मिपक्षे स्वशब्दनिवेदितत्वाभावे रसादीनामप्रतीतिप्रसङ्गः । न च सर्वत्र तषां स्वशब्दनिवेदितत्वम् । यत्राप्यस्ति तत् . तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैवेषां प्रतीतिः । स्वशडेन मा केवलमनूद्यते. न तु तत्कृता । विषयान्तरे तथा तम्या अदर्शनात् । न हि केवलशृङ्गारादिशब्दमात्रभानि विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिरस्ति । यतश्च स्वाभिधानमन्तरेण केवलेभ्योऽपि विभावादिभ्यो विशिष्टेभ्यो रसादीनां प्रतीतिः, केवलाच स्वाभिधानादप्रतीतिः, तम्मादन्वगव्यतिरकाभ्यामाभधेयसामर्थ्याक्षिप्तत्वमेव रसादीनाम, न त्वभिधेयत्वं कथञ्चिदिति तृतीयोऽपि प्रभेदो वाच्याद्भिन्न एवेति स्थितम । वाच्येन त्वम्य सहेव प्रतीतिरित्यग्रे दर्शयिप्यते । काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा। कौश्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ॥५॥ विविधवाच्यवाचकरचनाप्रपञ्चचारूणः काव्यम्य म एवार्थः सारभूतः । तथा चादिकवेवाल्मीकेस्मन्निहितसहचरीविरहकातरक्रौञ्चाक्रन्दनक्तिः शोक एव श्लोकतया परिणतः । शोको हि करुणस्थायिभावः । प्रवीयमानस्य चान्यभेददर्शनेऽपि रसभावमुखेनैवोपलक्षणं, प्राधान्यात् । सरस्वती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां काननम् । अलोकसामान्यमभिव्यनक्ति परिस्फुरन्तं प्रतिमाविशेषम् ॥६॥ तत् वस्तुतत्त्वं निःप्यन्दमाना महतां कवीनां भारती अलोक
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy