________________
१-२,३,४
ध्वन्यालोकः तत्र ध्वनरेव लक्षयितुमारब्धम्य भूमिका रचयितुमिदमुच्यतेयोर्थः सहृदयश्लाघ्यः काव्यात्मेति व्यवस्थितः। वाच्यप्रतीयमानाख्यो तस्य भेदावुभौ स्मृतौ ॥२॥
काव्यस्य हि ललितोचितसन्निवेशचारुणः शरीरम्येवात्मा साररूपतया स्थितः सहृदयश्लाघ्यो यो ऽर्थस्तम्य वाच्यः प्रतीयमानश्चेति द्वौ भेदौ ।
तत्र वाच्यः प्रसिद्धो यः प्रकारेरुपमादिभिः । बहुधा व्याकृतः सोऽन्यैः काव्यलक्ष्मविधायिभिः ततो नेह प्रतन्यते ॥३॥ केवलमनूद्यते यथोपयोगमिति । प्रतीयमानं पुनरेन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु॥४॥
प्रतीयमानं पुनरन्यदेव वाच्याद्वस्वस्ति वाणीषु महाकवीनाम् । यत्तत्सहृदयसुप्रसिद्धं प्रसिद्धेभ्योऽलङ्कृतेभ्यः प्रतीतेभ्यो वावयवेभ्यो व्यतिरिक्तत्वेन प्रकाशते लावण्यमिवाङ्गनासु । यथा ह्यङ्गनासु लावण्यं पृथनिर्वर्ण्यमानं निखिलावयवव्यतिरेक किमप्यन्यदेव सहृदयलोचनामृतं तत्त्वान्तरं तद्वदेव सोऽर्थः ।
स ह्यों वाच्यसामर्थ्याक्षिप्तं वस्तुमात्रमलङ्कारा रसादयश्चेत्यनेकप्रभेदप्रभिन्नो दर्शयिप्यते । सर्वेषु च तेषु प्रकारेषु तस्य वाच्यादन्यत्वम् । तथा ह्याद्यस्तावत्प्रमेदो वाच्याद्दरं विमेदवान् । स हि कदाचिद्वाच्ये विधिरूपे प्रतिषेधरूपः । यथा
भम धम्मिअ वीसद्धो सो सुणओ अज मारिओ तेण । गोलाणइकच्छकुडुंगवासिणा दरिअसाहेण ।।