________________
५२
अनुयोगाचार्य श्रीमत्प्रेमविजयगणिगुम्फिता
रणा वेदना स्वीकर्तव्येति वाच्यम्, सिद्धानामपि तत्प्रसङ्गात् । नन्वन्तर्वेदना लकुटघातादिजन्य बाह्य वेदनानिमित्तेति चेत् ? ननु तर्हि लकुटघातादिजन्यबाह्यवेदनाभावेऽन्तर्वेदना कथमनुभूयते १ ततस्तत्कारणभूतेन मध्येsपि कर्मणा भाव्यमिति सिद्धोऽस्मत्पक्षः । ननु त्वक्पर्यन्तवर्त्यपि कर्म मध्येऽपि शूलादिवेदनां जनयति न पुनः मध्ये कर्मेति चेत् ? ननु तर्हि यज्ञदत्तशरीरगतं कर्म देवदत्तशरीरवेदनामपि कथं न जनयति १ विभिन्नदेशस्थितत्वाविशेषात् । ननु त्वक्पर्यन्तवर्त्यपि कर्म यज्ञदत्तशरीरस्य बहिरन्तः संचरति, तत उभयत्रापि वेदनां जनयति, न शरीरान्तरे, तत्र संचरणाभावादिति चेत् न, कञ्चुकवत् बहिरेव तिष्ठतीति नियमस्य भङ्गप्रसङ्गात् । किञ्च संचरणमपि न युज्यते, यतः संचरणत्वस्वीकारे बहिरन्तः क्रमेण वेदना स्यात् न चैवमुपलभ्यते, लकुटादिघाते सति युगपदुभयत्रापि वेदनादर्शनादिति । अपि च संचरिष्णु कर्माभ्युपगमे भवान्तरं तन्नानुगच्छति, उच्छ्रासनिःश्वासानिलवत्, तथा च सर्वेषां संसाराभावप्रसङ्गः । ननु सिद्धान्तेऽपि कर्मणः चलनमुक्तं तथा च भगवत्यां - "चलमाणे चलिए" इति । अत्र चलनं संचरणमेवोक्तमिति कथं भवद्भिस्तदत्र निषिध्यत इति चेत् ? न, अभिप्रायापरिज्ञानात्, तथाहि - "नेरईए जाव वेमालिए जीवाउ चलियं कम्मं निञ्जरः" इत्यादिवचनात् । तथा " निर्जीर्यमाणं निजण " इति वचनाच्चागमे यचलितं कर्म निर्जीर्णमुक्तं तदकर्मैव भणितम्, तच्चाकाशपरमाण्वादेखि मध्यगतमपि न वेदनां जनयितुमलम्, सामर्थ्याभावादिति कर्मणः संचरणं न युक्तमतो न कञ्चुकवत् त्वक्पर्यन्तवर्थेव