________________
३२ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फितागतः, कार्यस्य निष्पन्नत्वेन लब्धात्मलाभात् , अलब्धात्मलाभसम्पादनायैव हेतुता संगता, निष्पन्नस्यापि कार्यस्या. लब्धात्मलाभे तु कार्यगतखभावस्याप्यलब्धात्मलाभः । ननु कार्यगतस्वभावो मास्तु विचित्रतानियामकः, कारणगतस्वभा. वस्तु तथास्विति चेत् ? ननु कारणगतस्वभावः किं तस्सात् भिन्नोऽभिन्नो वा ?, न तावत् भिन्नः, सर्वस्याऽपि वस्तुनः तनियामकताप्रसङ्गः, तथा च सति घटकारणगतस्वभावोऽपि पटविचित्रतानियामकः स्यात् भिन्नत्वाविशेषात् । नाप्य. भिन्नः तथात्वे कारणमेव विचित्रतानियामकं न तद्गतस्वभावस्तस्मात्स्वभाववादो न वरीयानिति । एतेन कारणानुरूपमेव कार्य प्रभवति न हि यवबीजाङ्कुराः गोधूमान् प्रदातुं प्रभवः, मनुष्यादिभवकारणं च पूर्वजन्म, तस्मात्परत्राप्येतद्भवतुल्यो भवः कल्प्यते, एवं यः पुरुषः स परत्रापि पुरुष एवैवं सर्वत्रापि बोध्यम् । तदुक्तं"कारणसरिसं कजं बीजस्सेवंकुरो त्ति मण्णन्तो। इह भवसरिसं सव्वं जमवेसि परेवि ।” इत्यादिप्रत्युक्तम् , विश्ववैचित्र्येऽदृष्टस्य कारणत्वाभिधानात् । तथापि किश्चिदुच्यते, तथा हि-यच्चोक्तं कारणानुरूपमेव कार्य तदप्येकान्तेन न रमणीयम् , यतः-शृङ्गात् शरः उत्पद्यते, सर्षपानुलिप्तात् शृङ्गात् धान्यसङ्घातः, वातो वो गोलोमाविलोमाभ्यामपि दुर्वोत्पद्यते, तथा विसदृशानेकद्रव्यसंयोगेन सर्पसिंहादिप्राणिनः मणिहेमादयश्चोत्पद्यन्ते ।