________________
५८
कातन्त्रव्याकरणम्
[विशेष वचन] १. रात्रिम्मन्य इति नित्यम् उपपदाश्रयत्वात् (दु० वृ०) । २. सोपपदविधिना निरुपपदविधिर्बाध्यते (दु० टी०, वि० प०) । ३. परशब्दस्येष्टवाचित्वात् पूर्व एव भवतीति (दु० टी०) । [रूपसिद्धि]
१. रात्रिञ्चरः, रात्रिचर;। रात्रि + चर + ट + सि । रात्रौ चरति । 'रात्रि' शब्द के उपपद में रहने पर “चरेष्टः'' (४।३।१९) सूत्र द्वारा 'ट' प्रत्यय, 'ट्' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से वैकल्पिक मकारागम, अनुस्वार, पञ्चम वर्णादश तथा विभक्तिकार्य ।
२. रात्रिमटः, रात्र्यटः। रात्रि + अट् + अच् + सि । अटतीत्यट: । ‘अट गतो' (१।१०२) धातु से “अच् पचादिभ्यश्च'' (४।२।४८) सूत्र द्वारा अच् प्रत्यय। रात्रौ अट: । प्रकृत सूत्र से वैकल्पिक मकारागम तथा विभक्तिकार्य । मकारागम के अभाव में “इवर्णो यमसवणे न च परो लोप्य:'' (१।२।८) से इकार को यकारादेश ।।८८३। ८८४. पुरन्दरवाचंयमसर्वंसहद्विषन्तपाश्च [४।१।२९]
[सूत्राथे]
'पुरन्दर - वाचंयम - सर्वंसह - द्विषन्तप' इन चार शब्दों की अण्प्रत्ययान्त निपातन से सिद्धि होती है ।।८८४।
[दु० वृ०]
एतेऽणप्रत्ययान्ता निपात्यन्ते । पुरं दारयतीति पुरन्दरः शक्रः । वाचं यच्छतीति वाचंयमो व्रत एव । सर्वं सहते सर्वंसहः। द्विषं तापयतीति द्विषन्तपः। यल्लक्षणेनानुत्पन्न तत् सर्वं निपातनात् सिद्धम् । भगं दारयतीति भगन्दरो रोगो रूढित एव ।।८८४।
[दु० टी०]
पुर० । यदित्यादि । दारेह्रस्वत्वं न्वागमः, वाचस्त्वमागमः, यमेरप्युपधादीर्घाभावः। व्रत एव, व्रतविषय एव धात्वर्थः । सर्वस्य न्वागमः सहेरुपधादीर्घाभावश्च । द्विषः शन्तृङो नागमो नलोपश्च। तकारस्य तु "संयोगादेधुंटः' (२।३।।५५) लोपोऽस्त्येव, तापेश्च ह्रस्वोऽणि ||८८४।
[वि०प०] पुरन्दर० । एषां स्त्रीत्वसम्भवे स्त्रियामादैव कर्मण्यणन्तादपीत्यर्थः ।।८८४। [क० च०]
पुर० । ननु 'पुरन्दरः' इत्यादौ मकारागमः क्रियते इत्यादिकं कार्यं कथं लभ्यत इत्याह - यल्लक्षणेनेत्यादि । एषां स्त्रीत्व इति पञ्जिका, तर्हि कथं पुरन्दरस्य स्त्री